________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व
षष्ठः सर्गः अजितसगरचरितम्।
॥१७६ ॥
8282828282828282828282828286
विपन्नमपि मे पुत्रं, सा यथा कुलदेवता । प्रत्यानयति येनाऽस्मि, दुःखितः पुत्रमृत्युना ॥११५ ॥ भवस्वरूपं नृपतिर्जानन्नपि कृपावशात् । तदुःखदुःखितः किञ्चिच्चिन्तयित्वैवमब्रवीत् ॥११६ ॥ एतस्यामवनौ तावद्, गृहेषु सकलेष्वपि । अस्माकं गृहमुत्कृष्टं, सुमेरुः पर्वतेष्विव ॥११७॥ आसीदस्मिन्नसामान्यस्त्रिजगन्मान्यशासनः । प्रथमस्तीर्थनाथानां, प्रथमः पृथिवीभुजाम् ॥११८ ॥ लक्षयोजनमुत्सेधे, दण्डीकृत्याऽमराचलम् । दोर्दण्डेन समुत्क्षिप्य, च्छत्रीकर्तुं क्षमः क्षमाम् ॥११९॥ चतुःषष्टीन्द्रमुकुटोत्तेजितामिनखावलिः । भगवानृषभखामी, विपन्नः सोऽपि कालतः ॥१२०॥
॥त्रिभिर्विशेषकम् ॥ तस्य च प्रथमः सूनुः, प्रथमश्चक्रवर्तिनाम् । सुरा-ऽसुरैरपि सदा, शिरसोद्वाह्यशासनः ॥१२१ ॥ भरतो नाम सौधर्मपुरुहूतासनार्धभाक् । कालेन गच्छता सोऽपि, समाप्ति प्रापदायुषः ॥१२२ ॥ युग्मम् ॥ तस्य चाऽवरजो धुर्यो, वर्यदोर्वीर्यशालिनाम् । अम्भोधीनामिवाऽम्भोधिः, स्वयम्भूरमणाभिधः ॥१२३ ॥ कण्डूयद्भिः सैरिभेभ-शरभाद्यैरकम्पितः । वज्रदण्ड इव न्यस्तो, वत्सरं प्रतिमाधरः ॥१२४ ॥ महाबाहुर्बाहुबलिर्बाहुदन्तेयविक्रमः । नाऽधिकं किञ्चिदप्यस्थात्, सम्पूर्णे पुरुषायुषे ॥१२५ ॥
॥त्रिभिर्विशेषकम् ॥ उग्रेण तेजसाऽऽदित्यो, नाम्नाऽऽदित्ययशा इति । समभूदोजसाऽनूनः, सूनुर्भरतचक्रिणः ॥१२६ ॥ आदित्ययशसः सूनुरासीन्नाम्ना महायशाः । दिगन्तसङ्गीतयशाः, सर्वदोष्मच्छिरोमणिः ॥१२७॥
१ महिषगजाष्टापदप्रभृतिभिः। २ इन्द्रसमपराक्रमः ।
888888888888888888888888888
अपरिचितेन
द्विजेन स्वपुत्रमरणमिषेण सगरस्य प्रतिबोधनम्।
॥१७६ ॥