________________
त्रिषष्टि
शलाका
पुरुषचरिते
।। १७५ ।।
' D X D X D X X
DE DE DE R K RY
ध्रुवं विपन्नो मे पुत्र, इति निश्चित्य चेतसा । अहमप्यपतं सद्यो, गतप्राण इवाऽवनौ ॥ १०० ॥ मूर्च्छाविरामे भूयोऽपि प्रलपन् करुणस्वरम् । अपश्यं गृहमध्येऽहं, सर्पदष्टमिमं सुतम् ॥ १०१ ॥ भोजनाद्यप्यकृत्वाऽस्थां, यावज्जाग्रदहं निशि । कुंलदेवतया तावदिदमादेशि मे पुनः ॥ १०२ ॥ भोः! किमेवं समुद्विग्नोऽस्यमुना पुत्रमृत्युना ? । सम्पादयामि ते पुत्रं, यद्यादेशं करोषि मे ॥ १०३ ॥ देव्याः प्रमाणमादेश, इत्यवोचमहं ततः । पुत्रार्थे शोकविधुरैः, किं वा न प्रतिपद्यते ? ॥ १०४ ॥ कुलदेवतयाऽथोक्तं, विपन्नो यत्र कोऽपि न । ततोऽग्नि मङ्गलगृहात्, कृतोऽप्यानय सत्वरम् ॥ १०५ ॥ ततस्तनयलोभेन, प्रत्यहं प्रतिमन्दिरम् । तत् पृच्छन् हस्यमानोऽहं भ्रान्तोऽर्भक इवाऽभ्रमम् ॥ १०६ ॥ पृच्छयमानो जनः सर्वोऽप्याचष्टे स्म गृहे गृहे । सङ्ख्यातीतान् मृतान् वेश्म, नाऽमृतं किञ्चिदप्यभूत् ॥१०७॥ तदप्राप्त्या च भग्नाशः, परासुरिव नष्टधीः । व्यजिज्ञपमहं दीनस्तत् सर्वं कुलदेवताम् ॥ १०८ ॥ आदिशद् देवताऽप्येवं, न मङ्गलगृहं यदि । अमङ्गलं कथमहं तव रक्षितुमीश्वरी? ॥ १०९ ॥ तया च देवतावाचा, तोत्रेणेव प्रवर्तितः । प्रतिग्रामं प्रतिपुरं भ्रमन्नहमिहाऽऽगमम् ॥ ११० ॥ अपि धात्र्याः समस्तायास्त्राता त्वमसि विश्रुतः । न कोऽपि प्रतिमल्लोऽस्ति दोष्मदग्रेसरस्य ते ॥ १११ ॥ वैताढ्यगिरिदुर्गस्थश्रेणिद्वयगतास्तव । विद्याधरा अपि दधत्याज्ञां शिरसि माल्यवत् ॥ ११२ ॥ देवा अपि तवाऽऽदेशं, सदा कुर्वन्ति भृत्यवत् । वाञ्छितार्थं प्रयच्छन्ति, निधयश्च तवाऽनिशम् ॥ ११३ ॥ ततस्त्वां शरणं प्राप्तो, दीनत्राणैकसत्रिणम् । तदग्नि मङ्गलगृहात्, कुतोऽप्यानय मत्कृते ॥ ११४ ॥ १ जीवयामि । २ मृतः । ३ गतप्राणः । ४ गवादिताडनदण्डः । ५ दीनरक्षणैकदीक्षितम् ।
FRYRYDEREREREREREREREDEDEDE
द्वितीयं पर्व
षष्ठः सर्गः अजित
सगर
चरितम् ।
अपरिचितेन
द्विजेन स्वपुत्रमरणमिषेण सगरस्य प्रतिबोधनम् ।
।। १७५ ।।