________________
त्रिषष्टिशलाका
द्वितीयं पर्व
पुरुषचरिते
सर्गः
अजित
॥१७४॥
सगरचरितम्।
VRBRERERURURURURERER®
दायमादाय दायादा, विवदन्ते पुनर्न हि । अवाप्तोत्तमसिद्धान्ताः, शिष्या इव गुरुं प्रति ॥८५ ॥ भगिनीवद् दुहितृवत्, स्नुषावन्मातृवत् तथा । मन्यते परकीयाः स्त्रीया॑यनिष्ठोऽखिलो जनः ॥८६॥ नास्ति यत्याश्रम इव, त्वद्राज्ये वैरवागपि । सन्तोषशालिनि जने, नाऽऽधिः साऽम्भसि तापवत् ॥८७॥ भुवि सर्वोषधीमय्यां, न व्याधिः प्रावृषीव तृट् । त्वयि कल्पद्रुम इव, दारिद्यं च न कस्यचित् ॥८८ ॥ अस्ति दुःखाकर लोके, न किञ्चिदपि कस्यचित् । किन्तूपनतमस्त्येतेन्ममैव हि तपस्विनः ॥८९॥ अवन्ति म देशोऽस्ति, स्वर्गदेश्यो महानिह । नगरोद्यान-नद्याद्यैरनवद्यैर्मनोहरः॥९० ॥ महासरः-कूप-वापी-विचित्रारामबन्धुरः । तत्राऽश्वभद्रो नामाऽस्ति, ग्रामस्तिलकवद् भुवः । ९१ ॥ तत्र ग्रामेऽस्मि वास्तव्यो, वेदाध्ययनतत्परः । अग्निहोत्ररतो नित्यं, शुद्धब्रह्मकुलोद्भवः ॥९२॥ पत्न्याः प्राणप्रियं पुत्रमर्पयित्वाऽहमन्यदा । विशेषविद्याध्ययनहेतोामान्तरं गतः ॥९३ ॥ पठतस्तत्र चाऽन्येधुरुदभूदरतिर्मम । अनिमित्तं महदेतदित्यक्षुभ्यमहं ततः ॥९४ ॥ भीतस्तेनाऽनिमित्तेन, स्वं ग्रामं पुनरागमम् । अहं पूर्वाश्रितां जात्यतुरङ्ग इव मन्दुराम् ॥१५॥ दूरादहमपश्यं च, श्रीविमुक्तं निजं गृहम् । किमेतदिति चित्ते च, चिरं यावदचिन्तयम् ॥९६ ॥ अमन्दं स्पन्दितं तावद्, दक्षिणेतरचक्षुषा । शुष्कवृक्षे चटित्वोच्चै, रटितं करटेन च ॥९७ ॥ इत्यादिभिर्दुनिमित्तैर्विद्धो हदि शरैरिव । विमनाः प्राविशमहं, चञ्चापुरुषवद् गृहम् ॥९८ ॥ मामापतन्तं सम्प्रेक्ष्य, ब्राह्मणी विलुलत्कची । सद्यो हा पुत्र! हा पुत्रेत्याक्रन्दन्त्यपतद् भुवि ॥९९॥
१ भागम् । २ प्राप्तम् । ३ दुःखम् । ४ स्वर्गसदृशः । ५ अपशुकनम् । ६ अश्वशालाम् । ७ वामनेत्रेण। ८ काकेन । ९ विकीर्णकेशा।
1282828282828282828282828286
अपरिचितेन
द्विजेन स्वपुत्रमरणमिषेण
सगरस्य प्रितबोधनम्।
॥१७४ ॥