________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व
षष्ठः
सर्गः
॥१८४॥
अजितसगरचरितम्।
282828282828282828282828282
आदिदेश विशामीशोऽप्येनमानय सत्वरम् । यथा विज्ञपयत्येष, यथेच्छं स्वमभीप्सितम् ॥ २२७॥ नृपादेशादनुज्ञातो, वेत्रिणा स तदा पुमान् । बुधोऽर्कमण्डलमिव, नृपास्थानीमथाऽविशत् ॥ २२८ ॥ रिक्तहस्तो न कुर्वीत, स्वामिदर्शनमित्यसौ । भूभुजे सुमनोदाम, मालाकार इवाऽऽर्पयत् ॥ २२९ ॥ वेत्रिणा दर्शिते स्थाने, ततोऽसौ रचिताञ्जलिः । निषसादाऽऽसनायुक्तैर्दत्ते तदुचितासने ॥ २३०॥ किञ्चिदुन्नमितैकभ्रूः, स्मितस्तबकिताधरः । सप्रसादमभाषिष्ट, तमेवं पृथिवीपतिः ॥ २३१॥ विप्र-क्षत्रिय-विट्-शूद्रवर्णेभ्यः कतमोऽसि भोः? । अम्बष्ठ-मागधादिभ्यो, मिश्रेभ्यो वाऽसि कश्चन? ॥२३२॥ तत्र किं श्रोत्रियोऽसि त्वमसि पौराणिकोऽथवा? । स्मार्तो वा? मौहूर्तो वाऽसि?, त्रिविद्याविदुरोऽसि वा? ॥२३३ ॥ चापाचार्योऽसि यदि वा?, चर्मा-ऽसिचतुरोऽसि वा? | किंवा प्रासे कृताभ्यास:?, शल्ये वा प्राप्तकौशलः? ॥२३४॥ यद्वा गदायुधज्ञोऽसि?, यदि वा दण्डपण्डितः? । प्रकृष्टशक्तिः शक्तौ वा?, मुसले कुशलोऽसि वा? ॥२३५॥ निरर्गलो लाङ्गले वा? चक्रे वा प्राप्तविक्रमः? । कृपाण्यां निपुणोवाऽसि बाहुयुद्धेऽथ वा पटुः? ॥२३६ ॥ यद्वाऽश्वहृदयज्ञोऽसि? गजशिक्षाक्षुमोऽसि वा? किं व्यूहस्वनाचार्यः? किं वाऽसि व्यूहभेदकः ॥२३७॥ किंवा रथादिकर्ताऽसि?, रथादिप्राजकोऽसि वा? । रजत-स्वर्ण-शुल्वादिधातूनां घटकोऽसि वा? ॥२३८॥
चैत्य-प्रासाद-हादिनिर्माणनिपुणोऽसि वा? । विचित्रयन्त्र-दुर्गादिरचनाचतुरोऽसि वा? ॥ २३९ ॥ सांयात्रिककुमारः किं?, सार्थवाहसुतोऽथवा? । किंवा सौवर्णिकोऽसि त्वमसि वैकटिकोऽथवा? ॥२४०॥
१ शून्यहस्तः । २ आसनाधिकारिभिः। ३ ऋग्-यजुः-सामवेदेषु निपुणः। ४ फलका-ऽसिविद्या- प्रवीणः । ५ कुन्तविद्यायाम् । ६ सारथिः। या ७ ताम्रम्। ८ पोतवणिकपुत्रः। ९ मणिकारः ।
282828282828282828282828282
सगरप्रतिबोधाय सुबुद्धिमन्त्र्युक्तं तान्त्रिकोदाहरणम्।
॥१८४॥