________________
द्वितीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
सर्गः अजितसगरचरितम् ।
॥१७२॥
282828282828282828282828288
निर्वापयितुमुद्दामो, युगान्तज्वलनोऽपि वा । कल्पान्तोत्पातजातो वा, मन्दीकर्तुं समीरणः ॥५६॥ उत्तम्भनेनाऽद्रिरपि, समुत्तम्भयितुं पतन् । न तूपायशतेनाऽपि, शक्यो मृत्युनिषेधितुम् ॥५७ ॥ ते नः सम्पश्यमानानां, विपन्नाः स्वामिसूनवः । इत्येवं मास्म खिद्यध्वं, धीरीभवत सम्प्रति ॥५८ ॥ यष्माकं स्वामिनमपि, मज्जन्तं शोकसागरे । हस्तेनेव धरिष्यामि, प्रबोधवचसाऽञ्जसा ॥५९॥ एवमाश्वास्य तान् सर्वान्, मृतं किञ्चित् पथि स्थितम् । विप्रः सोऽनाथमादाय, विनीतां नगरीं ययौ ॥६०॥ सगरस्य नरेन्द्रस्य, स गत्वा सदनाङ्गणे । ऊर्वीभूयोद्धर्वदोर्दण्डः, पूच्चकारोच्चकैरिति ॥६१॥ चक्रवर्तिन्! न्यायवर्तिन्नखण्डभुजविक्रम! । अत्याहितमब्रह्मण्यमब्रह्मण्यमहो! इदम् ॥६२॥ स्वर्गे पुरन्दरेणेव, क्षेत्रे भरतनामनि । यत् त्वया रक्षितेऽप्यस्मिन्, मुषितो मुषितोऽस्म्यहम् ॥६३ ॥ शब्दमश्रुतपूर्वं तं, श्रुत्वा सगरचक्यपि । सङ्क्रान्ततदुःख इव, जगाद द्वारपालकम् ॥६४॥ केनैष मुषितः? कोऽयं?, कुतो वाऽयं समागतः? । सर्वं विज्ञायतामेतत्, स्वयं वाऽत्र प्रवेश्यताम् ॥६५॥ द्वारपालोऽथ पप्रच्छ, विगं क्षिप्रमुपेत्य तम् । अनाकर्णितकं कुर्वन्, पूच्चकार तथैव सः ॥६६॥ व्याजहार प्रतीहारः, पुनरेवमहो द्विज! । किं दुःखबधिरोऽसि त्वं?, निसर्गबधिरोऽसि वा? ॥६७ ॥ अजितस्वामिनो भ्राता, स्वयमेष महीपतिः । दीना-ऽनाथपरित्राता, शरणं शरणार्थिनाम् ॥१८॥ सादरः सोदरमिव, त्वां पृच्छति विराविणम् । मुषितः केन? कश्चाऽसि?, कुतस्त्योऽसीति शंस नः ॥६९॥ यदि वा स्वयमागत्य, स्वकीयं दुःखकारणम् । वैद्यायेव रुगुत्थानं, निवेदय महीभुजे ॥७० ॥
१ जीवितापहार्यनर्थसम्पातः । २ पूत्कारिणम् । ३ रोगोत्पत्तिम्
282828282828282828282828282
अपरिचितेन द्विजेन स्वपुत्रमरण मिषेण सगरस्य बोदनम्।
॥१७२॥