________________
त्रिषष्टि
शलाका
पुरुषचरिते
।। १७१ ॥
REDEREREAGAGAGAGRERERERE DE R
भक्ता बहुज्ञा दोष्मन्तो, दृष्टसाराः पुराऽपि च । इत्यादिष्टा वयं राज्ञा, सत्कृत्य तनयैः सह ॥ ४१ ॥ विना कुमारानभ्येत्य, स्वामिनोऽग्रे वयं कथम् । वदनं धारयिष्यामो नासिकारहिता इव ? ॥ ४२ ॥ कथं वा कथयिष्यामः, पुत्रवृत्तान्तमीदृशम् । अकाण्डाशनिसम्पातसदृशं वसुधापतेः ? ॥ ४३ ॥ अतः परमहो! तत्राऽस्माकं गन्तुं न युज्यते । युज्यते किन्तु मरणं, शरणं सर्वदुःखिनाम् ॥ ४४ ॥ सम्भावनायाः प्रभुणा, कृताया भ्रंशभाजिनः । पुंसोऽशरीरिकस्येव, जीवितव्येन किं ननु ? ॥ ४५ ॥ किञ्च पुत्रक्षयं श्रुत्वा, दुःश्रवं चक्रवर्त्यपि । चेद् विपद्येत तदपि, मृत्युरग्रेसरो हि नः ॥ ४६ ॥ मन्त्रयित्वेति ते सर्वे, मरणे कृतनिश्चयाः । यावत् तस्थुस्तावदागादेकः काषायभृद्द्विजः ॥ ४७ ॥ ब्राह्मणग्रामणीः सोऽथ, प्रोत्क्षिप्तकरपङ्कजः । जीवयंस्तानुवाचैवं, गिरा जीवातुकल्पया ॥ ४८ ॥ भोः कृत्यमूढाः ! किं यूयमेवं स्थाऽस्वस्थचेतसः ? । उपर्यापतिते व्याधे, पतित्वा शशका इव ॥ ४९ ॥ यदि षष्टिसहस्रा वः, स्वामिपुत्रा विपेदिरे । युगपद् युग्मिवत् तत्र, विषादेन कृतं ननु ॥ ५० ॥
सहजाता अपि क्वापि, विपद्यन्ते पृथक् पृथक् । पृथग्जाता अपि क्वाऽपि, विपद्यन्ते सहैव हि ॥ ५१ ॥ बहवोऽपि विपद्यन्ते, विपद्यन्तेऽल्पका अपि । सर्वेषामपि जीवानां यन्मृत्युः पारिपार्श्विकः ॥ ५२ ॥ न हि केनाऽपि कस्यापि, मृत्युः शक्यो निषेधितुम् । अपि यत्नशतं कृत्वा, स्वभाव इव देहिनाम् ॥ ५३ ॥ निषेधितुं शक्यते चेत्, स निषिद्धः कथं न हि । वज्रभृच्चक्रवर्त्त्याद्यैः, स्वस्य वा स्वजनस्य वा ? ॥ ५४ ॥ मुष्टिना शक्यते धर्तुमपि वज्रं पतद् दिवः । सेतुनाऽवस्खलयितुमप्युद्धान्तः पयोनिधिः ॥ ५५ ॥
१ सञ्जीवनौषधतुल्यया । २ मृत्युः । ३ रोद्धुम् ।
DEDEDEDEREREDEREREREREDERER
द्वितीयं पर्व
षष्ठः सर्गः
अजित
सगर
चरितम् ।
मुमूर्षूणां
सगरपुत्रान्त:पुरीप्रभृतीनां अपरिचितेन द्विजेन संस्थापनम् ।
॥ १७१ ॥