________________
द्वितीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
षष्ठः
सर्गः
॥१७०॥
अजितसगरचरितम् ।
1282828282828282828282828285
युष्मान् नष्टान् विनष्टान् वा, हित्वा गतवतां मुखम् । कथं द्रक्ष्यति नः स्वामी, ऋषिहत्याकृतामिव? ॥२७॥ युष्मान् विना गतान् नोऽद्य, लोकोऽप्युपहसिष्यति । हृदय! स्फूट रे! सद्यः, पयःसिक्तामकुम्भवत् ॥२८॥ तिष्ठ तिष्ठाऽहिखेट! त्वं, छलेन श्वेव नः पतीन् । व्यग्रानष्टापदत्राणे, दग्ध्वाऽयासीः क्व रेऽधुना? ॥२९॥ खड्गः खड्गो धन्व धन्व, शक्तिः शक्तिर्गदा गदा । युद्धाय सज्जीभव रे!, कियन्नंष्ट्वा गमिष्यसि? ॥३०॥ अमी तावदिह त्यक्त्वा, ययुनः स्वामिसूनवः । हहा! तत्र गतानद्य, त्यक्ष्यति स्वाम्यपि द्रुतम् ॥३१॥ अगतानपि नस्तत्र, जीवतोऽत्रैव तिष्ठतः । श्रुत्वा लज्जिष्यते स्वामी, यदि वा निग्रहीष्यति ॥३२॥ एवं रुदित्वा विविधं, भूयः सम्भूय ते मिथः । सहजं धैर्यमालम्ब्य, मन्त्रयामासुरित्यथ ॥ ३३ ॥ पूर्वोदितविधानेभ्यः, परोक्तविधिवद् विधिः । सर्वेभ्यो बलवांस्तस्मान्न कोऽपि बलवत्तरः ॥३४॥ तत्राऽशक्यप्रतीकारे, मुधा प्रतिचिकीर्षितम् । व्योम्नः प्रतिजिघांसेव, जिघृक्षेव नभस्वतः ॥ ३५ ॥ एभिः प्रलापैस्तदलं, हस्त्यश्वाद्यखिलं प्रभोः । इदानीमर्पयामः स्वं, वयं न्यासधरा इव ॥३६ ॥ उचितं रुचितं वाऽपि, यत्किञ्चन ततः परम् । विदधातु तदस्मासु, स्वामि किं नो विचिन्तया? ॥ ३७॥ एवमालोच्य ते सर्वे, सर्वमन्तःपुरादिकम् । आदाय दीनवदनाः, प्रत्ययोध्यं प्रतस्थिरे ॥ ३८ ॥ मन्दं मन्दमथोत्साहहीना म्लानाननेक्षणाः । अयोध्यासन्निधिभुवं, प्रापुः सुप्तोत्थिता इव ॥३९॥ विषण्णास्तत्र च स्थित्वा, नीता वध्यशिलामिव । उपविश्य महीपीठेऽन्योऽन्यमेवं बभाषिरे ॥४०॥
PAYXXXXXXXXXXXXXXXXXXXXXXXXs
सगरपुत्रान्तःपुरीप्रभृतीनाम योध्यां प्रति प्रस्थानम्।
॥१७०॥
१ अस्मान् । २ अपक्क घटवत् । ३ पूर्वविधिभ्यः परो विधिर्बलवानिति व्याकरणशास्त्रे न्यायः । ४ दैवम् । ५ प्रतिहन्तुमिच्छा । ६ ग्रहीतुमिच्छा। ७धनम्।