________________
द्वितीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
सर्गः अजितसगरचरितम्।
28282828282828282828282828
अद्य चन्दनगोधानामिवाऽस्माकमुपर्यहो! विद्युद्दण्डमकाण्डेऽपि, दैव! पातय निर्दयम् ॥१३॥ प्राणाः! शिवा वः पन्थानः, सन्तु यात यथेप्सितम् । विमुञ्चताऽस्मच्छरीरमवक्रयकुटीमिव ॥१४॥ समायाहि महातन्द्रे!, सर्वदुःखापनोदिनि! । मन्दाकिनि! त्वमुत्प्लुत्य, जलमृत्युं प्रयच्छ वा ॥१५॥ अस्यां गिरितलाटव्यां, प्रादुर्भव दवानल! । अनुयामः पतिगति, तव साहाय्यकाद् यथा ॥१६॥ हा केशपाश! मुञ्चाऽद्य, सुमनोदामसौहृदम् । युवाभ्यां दीयतां नेत्रे!, कज्जलाय जलाञ्जलिः ॥१७॥ पत्रलेखनकण्डूति, मा कृषाथां कपोलकौ! । अलक्तकव्यतिकरश्रद्धामधर! मा धर ॥१८॥ गीताकर्णनवत् कर्णी!, त्यजतं रत्नकर्णिकाम् । हे कण्ठ! कण्ठिकोत्कण्ठां, मा कार्षीस्त्वमतः परम् ॥१९॥ वक्षोजावद्य वां हारो, नीहारोऽम्भोरुहामिव । सद्यो हृदय! भूयास्त्वं, पक्कैर्वारुकवद् द्विधा ॥२०॥ बाहु! कङ्कण-केयूरैारैरिव कृतं च वाम् । नितम्ब! रसनां मुञ्च, प्रातश्चन्द्र इव प्रभाम् ॥२१॥ अनाप्तैरिव पर्याप्तं, हे पादौ! पादभूषणैः । अलमङ्गाऽङ्गरागैस्तैः, कपिकच्छूमयैरिव ॥ २२ ॥ एवमन्तःपुरस्त्रीणां, रुदितैः करुणस्वरैः । वनान्यपि प्रतिरवै, रुरुदुः सह बन्धुवत् ॥ २३ ॥ सेनाधिपति-सामन्त-मण्डलेशादयोऽपि हि । शोक-ही-क्रोध-शङ्कादिविचित्रं प्रालपन्निति ॥ २४ ॥ हा स्वामिपुत्राः! क्व गताः?, न हि संविद्महे वयम् । ब्रूताऽनुयामोऽद्य यथा, स्वामिशासनतत्पराः ॥२५॥ किं तिरोधानविद्येह, भवतां काऽप्युपस्थिता? । सा तु खेदाय भृत्यानां, प्रयोक्तुं न हि युज्यते ॥ २६ ॥
१ भाटकगृहीतां कुटीमिव। २ पुष्पमालामैत्रीम् । ३ सम्बन्धः । ४ हिमम् । ५ पक्वचिर्भटकवत् । ६ हे शरीर! ।
282828282828282828282828282
सगरपुत्रमरणे तत्सामन्ता
दीनांशोचनम्।
॥१६९॥