________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व पञ्चमः सर्गः अजितसगरचरितम्।
॥१६४॥
1282828282828282828282828282
प्रवृत्ते दुःषमाकाले, भविष्यन्ति नरा यतः । अर्थलुब्धा हीनसत्त्वाः कृत्याकृत्याविचारकाः ॥१३३ ॥ प्रत्यग्रधर्मस्थानस्य, करणादधिकं ततः । चिरन्तनानां हि धर्मस्थानानां परिरक्षणम् ॥१३४ ॥ आमित्युक्ते कनीयोभिर्दण्डरत्नमुपाददे । ततो जहुः सहस्रांशुरिव तेजोभिरुल्बणैः ॥१३५ ॥ अष्टापदं पुरमिव, परितः परिखाकृते । स क्ष्मां खनितुमारेभे, दण्डरत्नेन सानुजः ॥१३६ ॥ सहस्रयोजनां चोले, परिखां सगरात्मजाः । चख्नुस्तेऽथ तया नागसद्मानि च बभञ्जिरे ॥१३७ ॥ नागलोकोऽखिल उपद्रूयमाणेषु सद्मसु । चुक्षोभ यादसां चक्रं, मथ्यमान इवाम्बुधौ ॥१३८ ॥ परचक्र इवाऽऽयाते, प्रदीपन इवोद्यते । महावात इवोद्भूते, नागास्त्रेसुरितस्ततः ॥१३९ ॥ आकुलं नागलोकं चाऽऽलोकयामास तं तथा । क्रुधा ज्वलज्ज्वलनवन्नागराड् ज्वलनप्रभः ॥१४०॥ दारितां चाऽवनी प्रेक्ष्य, किमेतदिति सम्भ्रमात् । ततो निर्गत्य सगरकुमारानाजगाम सः ॥१४१॥ उद्दामभ्रकुटीभीम, उत्तरङ्ग इवाऽर्णवः । प्रकोपस्फुरदधर, उदचिरिव पावकः ॥१४२॥ तप्तायस्तोमरश्रेणीरिव ताम्रा दृशः क्षिपन् । स्फारयन् नासिकारन्ध्रे, वज्राग्निधमनीनिभे ॥१४३॥ कृतान्त इव सङ्घद्धो, दुरीक्षः प्रलयार्कवत् । ज्वलनप्रभनागेन्द्र, इत्यूचे सगरात्मजान् ॥१४४ ॥ आः! किमेतदुपक्रान्तमहो! विक्रान्तमानिभिः । दुर्मदैर्दण्डरत्नाप्त्या, दुर्गाप्त्या शबरैरिव? ॥१४५ ॥ शाश्वतानामप्यधुना, भवनाधिपवेश्मनाम् । अकार्युपद्रवः कोऽयमप्रेक्षापूर्वकारिभिः? ॥१४६ ॥ अजितस्वामिनो भ्रातुष्पुत्रैरपि किमीदृशम् । भवद्भिर्विदधे कर्म, पिशाचैरिव दारुणम्? ॥१४७॥ १ परित इत्यर्थः । २ जलजन्तूनाम्। ३ अग्निवत् । ४ अविचारितकारिभिः ।
828282828282828282828282828A
सगरपुत्रैरष्टापदगिरेः
परिखाविधानम्।
॥१६४॥