________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व पञ्चमः
सर्गः
॥१६३ ॥
अजितसगरचरितम्।
12828282828282828282828
आरात्रिकमथो चर्दिव्यकर्पूरवर्तिभिः । तेऽर्चित्वोत्तारयामासुर्दिवाकरसहोदरम् ॥११८ ॥ शक्रस्तवेन वन्दित्वा, रचिताञ्जलयोऽथ ते । जिनेन्द्रानृषभस्वामिप्रभृतीनिति तुष्टुवुः ॥ ११९ ॥ अपारघोरसंसारपारावारतरीसमाः! । निर्वाणकारणीभूता, भगवन्तः! पुनीत नः ॥ १२० ॥ स्याद्वादवादप्रासादप्रतिष्ठासूत्रधारताम् । नय-प्रमाणैर्बिभ्रद्भ्यो, युष्मभ्यमनिशं नमः ॥ १२१ ॥ आयोजनं गामिनीभिर्वाणीसारणिभिर्भृशम् । अशेषजगदुद्यानाप्यायकेभ्यो नमोऽस्तु वः ॥१२२ ॥ युष्मदर्शनतोऽस्माभिरपि सामान्यजीवितैः । अवाप्तमापञ्चमारजीवितव्यफलं परम् ॥१२३ ॥ कल्याणकैर्गर्भ-जन्म-प्रव्रज्या-ज्ञान-मुक्तिभिः । नारकाणामपि सुखप्रदेभ्यो वो नमो नमः ।। १२४ ॥ मेघानामिव वायूनामिव चन्द्रमसामिव । अर्काणामिव भवतां, साधारण्यं श्रियेऽस्तु नः ॥१२५ ॥ अष्टापदगिरावत्र, धन्यास्ते पक्षिणोऽपि हि । निरन्तरायाः पश्यन्ति, भवतो ये दिने दिने ॥१२६ ॥ जीवितं चरितार्थं नः, कृतार्थो विभवश्च नः । युष्मदालोकना-ऽर्चाभिश्चिररात्राय सम्प्रति ॥१२७ ॥ इति स्तुत्वा नमस्कृत्य, भूयोऽपि श्रीमदर्हतः । प्रासादान्निर्ययुस्तस्मान्मुदिताः सगरात्मजाः ॥१२८ ॥ ववन्दिरे ते भरतभ्रातृस्तूपांश्च पावनान् । किञ्चिद् ध्यात्वा ततो जह्वरुवाचाऽवरजानिति ॥ १२९ ॥ अष्टापदसमं स्थानं, मन्ये क्वाऽपि न विद्यते । कारयामो वयमत्र, चैत्यमेतदिवाऽपरम् ॥१३०॥ मुक्तोऽपि भरतक्षेत्रं, भुते भरतचक्रयहो! । गिरौ भरतसारेऽत्र, चैत्यव्याजादवस्थितः ॥१३१॥ एतदेव कृतं चैत्यमस्माभिश्चेद् विधीयते । भाविभिलृप्यमानस्य, चैत्यस्याऽमुष्य रक्षणम् ॥१३२॥ १ प्रीणयद्भयः । २ साम्यभावः । ३ निर्विघ्नाः। ४ चिरम् । ५ लघुभ्रातृन्।
BOY8888888888888888888888888
सगरपुत्रर्जिनस्तवनम्।
॥१६३॥