________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व पञ्चमः
सर्गः अजितसगरचरितम् ।
282828282828282828282828282
अथोचे जह्वना नागराजेदं युक्तमभ्यधाः । अमुना वेश्मभङ्गेनास्मदुपज्ञेन पीडितः ॥१४८ ॥ वेश्मनां युष्मदीयानां, भङ्गोऽस्त्विति मनीषया । वसुन्धरा न खातेयमस्माभिर्दण्डपाणिभिः ॥१४९ ॥ किन्त्वष्टापदतीर्थस्याऽमुष्य रक्षणहेतवे । परिखारूपतोऽस्माभिरियं खाता वसुन्धरा ॥ १५०॥ | अत्र ह्यस्मद्वंशकन्दश्चक्रे भरतचक्रभृत् । चैत्यं रत्नमयं रत्नप्रतिमाश्चाऽर्हतां शुभाः ॥१५१॥ भविष्यत्कालदोषेण, लोकेभ्यस्तदुपद्रवम् । शङ्कमानैः प्रयत्नोऽयमस्माभिविहितः खलु ॥ १५२॥ भङ्गो युष्मद्वेश्मनां तु, दूरत्वान्न हि शङ्कितः । दण्डशक्तिरमोघेयं, हन्त! तत्राऽपराध्यति ॥ १५३ ॥ अविमृश्यविधायित्वेनाऽर्हद्भक्त्या च यत् कृतम् । तत् सहस्वाऽतः परं तु करिष्यामो न हीदृशम् ॥१५४॥ एवं जहकमारेणाऽनुनीतो नागराडपि । शशाम सामवागम्भः कोपाग्ने: शमनं सताम् ॥१५५ ॥ मा स्म कृढ्वं पुन!यमीदृगित्यभिधाय सः । नागलोकं ययौ नागराजः सिंहो गुहामिव ॥१५६ ॥ नागराजे गते जहाजहे सोदरानिति । परिखा विहिता तावदष्टापदगिरेरियम् ॥१५७ ॥ किन्तु पातालगम्भीराऽप्यम्भोरिक्ता न भात्यसौ । बुद्धिशून्या देहभाजो महत्यप्याकृतिर्यथा ॥१५८ ॥ किञ्च सम्भाव्यतेऽमुष्या, रजोभिरपि पूरणम् । स्थलीभवन्त्येव गर्ता, अपि कालेन गच्छता ॥ १५९ ॥ पुरणीया ततोऽवश्यमियं नीरेण भूरिणा । उत्तरङ्गां विना गङ्गां, तच्च कर्तुं न पार्यते ॥ १६०॥ साधु साध्विति सोदर्यैर्व्याहृतो जह्वरग्रहीत् । अमोघं दण्डरत्नं तद्, यमदण्डमिवाऽपरम् ॥१६१ ॥ दण्डरत्नेन तेनाऽथ,गङ्गातटमदारयत् । जह्वर्वज्रीव वज्रेण, महाशिखरिणस्तटीम् ॥ १६२ ॥ १ अस्मत्कृतेन । २ सामवाक्यमेव जलम् । ३ जलशून्या ।
1282828282828282828282828288
सगरपुत्रैः रष्टापदगिरेः
परिखाविधानम्।
॥१६५ ॥