________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व पञ्चमः
सर्गः
॥१५६॥
अजितसगरचरितम् ।
888888888888888888888888888
प्रविशन् हरिदासेन, चौरोऽसाविति शङ्कया । निहतः खड्गद्यातेन, विमर्शः क्वाऽल्पमेधसाम्? ॥१४॥ स्वस्य व्यापादकं ज्ञात्वा, तदानीमपि भावनः । तत्कालकलितद्वेषः, कालधर्ममुपाययौ ॥१५॥ स ज्ञात्वा पितरं पश्चात्, पश्चात्तापकदर्थितः । चकार प्रेतकार्याणि, सशल्यस्तेन कर्मणा ॥१६॥ विपेदे हरिदासोऽपि, गते काले कियत्यपि । दुःखदान् द्वावपि ततो, भ्रमतुः कतिचिद् भवान् ॥१७॥ किञ्चिच्च सुकृतं कृत्वा, जीवोऽभूद् भावनस्य तु । पूर्णमेघो हरिदासजीवस्त्वासीत् सुलोचनः ॥१८॥ || इति प्राग्जन्मसंसिद्धं, पूर्णमेघ-सुनेत्रयोः । वैरं प्राणान्तिकं राजन्नैहिकं त्वानुषङ्गिकम् ॥१९॥
भूयोऽपि सगरोऽपृच्छत्, तत्सून्वोरनयोमिथः । को वैरहेतुः? स्नेहश्च, सहस्राक्षे कुतो मम? ॥२०॥ स्वाम्यूचे दानशीलस्त्वं, परिव्राड् रम्भकाभिधः । प्राग्भवेऽभूस्तवाऽभूतां, शिष्यौ शश्यावली त्विमौ ॥२१॥ अभूच्चाऽतिविनीतत्वादावलिस्तेऽतिवल्लभः । गोधेनुमेकामक्रीणादन्यदा द्रविणेन सः ॥२२॥ भेदं गोस्वामिनः कृत्वा, कठोरहृदयः शशी । अन्तराले पतित्वैव, तां क्रीणाति स्म धेनुकाम् ॥ २३ ॥ केशाकेशि मुष्टामुष्टि, दण्डादण्डि तयोस्ततः । युद्धं प्रववृते घोरं, शशिना चाऽऽवलिर्हतः ॥ २४ ॥ शशी चिरं भवं भ्रान्त्वा, जज्ञेऽसौ मेघवाहनः । आवलिस्तु सहस्राक्षस्तदिदं वैरकारणम् ॥ २५ ॥ भ्रान्त्वा दानप्रभावेण, रम्भकोऽपि गती: शुभाः । चक्रयभूस्त्वं सहस्राक्षे, स्नेहः प्राग्जन्मभूश्च ते ॥ २६ ॥ अथ रक्षःपतिर्भीमो, निषण्णस्तत्र पर्षदि । उत्थायाऽऽलिङ्ग्य रभसान्मेघवाहनमब्रवीत् ॥ २७ ॥ | पुष्करद्वीपभरतक्षेत्रे वैताढ्यपर्वते । प्राग्भवे काञ्चनपुरे, विद्युदंष्ट्रो नृपोऽभवम् ॥ २८ ॥
१ विचारः। २ दुःखसहितः।
828282828282828282828282828
मेघवाहनसहस्राक्षयोः पूर्वभवः ।
॥१५६॥