________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व पञ्चमः सर्गः अजितसगरचरितम् ।
॥१५७॥
282828282828282828282828281
तस्मिन् भवे ममाऽभूस्त्वं, तनयो रतिवल्लभः । अत्यन्तवल्लभो वत्स!, साधु दृष्टोऽसि सम्प्रति ॥ २९ ॥ तदेवं सम्प्रत्यपि मे, पुत्रोऽसि परिगृह्यताम् । सैन्यं मदीयं त्वदीयमथाऽन्यदपि यन्मम ॥ ३० ॥ लवणोदे पयोराशौ, दुर्जयो द्युसदामपि । योजनानां सप्तशती, दिक्षु सर्वासु विस्तृतः ॥३१॥ राक्षसद्वीप इत्यस्ति, सर्वद्वीपशिरोमणिः । तदन्तरे त्रिकूटाद्रिभूमिनाभौ सुमेरुवत् ॥ ३२ ॥ महद्धिर्वलयाकारो, योजनानि नवोन्नतः । पञ्चाशतं योजनानि, विस्तीर्णोऽस्त्यतिदुर्गमः ॥३३॥ तस्योपरिष्टात् सौवर्णप्राकार-गृह-तोरणा । मया लङ्केति नाम्ना पूरधुनैवाऽस्ति कारिता ॥३४॥ षड् योजनानि भूमध्यमतिक्रम्य चिरन्तनी । शुद्धस्फटिकवप्राङ्का, नानारत्नमयालया ॥ ३५ ॥ सपादयोजनशतप्रमाणा प्रवरा पुरी । मम पाताललङ्केति, विद्यते चाऽतिदुर्गमा ॥३६॥ पुरद्वयमिदं वत्साऽऽदत्स्व तन्नृपतिर्भव । भवत्वद्यैव ते तीर्थनाथदर्शनजं फलम् ॥३७॥ इत्युक्त्वा राक्षसपतिर्माणिक्यैर्नवभिः कृतम् । ददौ तस्मै महाहारं, सद्यो विद्यां च राक्षसीम् ॥३८॥ भगवन्तं नमस्कृत्य, तदैव घनवाहनः । आगत्य राक्षसद्वीपे, राजाऽभूल्लङ्कयोस्तयोः ॥ ३९ ॥ राक्षसद्वीपराज्येन, राक्षस्या विद्ययाऽपि च । तदादि तस्य वंशोऽपि, ययौ राक्षसवंशताम् ॥ ४०॥ एवं स्थिते च सर्वज्ञो, विहरन्नन्यतो ययौ । स्वं स्वं स्थानं ययुस्तेऽपि, सुरेन्द्र-सगरादयः ॥४१॥ इतः पुनश्चतुःषष्टिसहस्रस्त्रीभिरन्वितः । रतिसागरनिमग्नो, नाकीवाऽरंस्त चक्रभृत् ॥४२॥ तस्याऽन्तःपुरसम्भोगजन्मा म्लानिरपास्यत । स्त्रीरत्नभोगादध्वन्यश्रमोऽपाच्यनिलादिव ॥ ४३ ॥
१ कामक्रीडासक्तः । २ देवः। ३ ननाश । ४ दक्षिणपवनात् ।
828282828282828282828282828
राक्षसवंशः।
॥१५७॥