________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व पञ्चमः
सर्गः अजितसगरचरितम् ।
॥१५५॥
28282828282828282828282828
( पञ्चमः सर्गः।) अथ साकेतनगरोद्यानेऽजितजिनेश्वरः । भगवान् समवासार्षीत्, सेव्यमानः सुरा-ऽसुरैः ॥१॥ वासवादिषु देवेषु, सगरादिषु राजसु । आसीनेषु यथास्थानं, विदधे देशनां विभुः ॥२॥ तदा च वैताढ्यगिरौ, पूर्णमेघं सहस्रदृक् । स्मरन् पितृवधं कुद्धोऽवधीत् तार्थ्य इवोरगम् ॥३॥ पूर्णमेघात्मजस्तस्मान्नष्टोऽथ घनवाहनः । तत्राऽऽजगाम समवसरणे शरणेच्छया ॥४॥ स त्रिः प्रदक्षिणीकृत्य, भगवन्तं प्रणम्य च । उपपादमुपाविक्षदुपवृक्षमिवाऽध्वगः ॥५॥ समाकृष्याऽपि पातालाद्, भ्रंशयित्वा दिवोऽपि तम् । बलीयसो वा शरणात्, कृष्ट्वा हन्मीति विब्रुवन् ॥६॥ तस्याऽनुपदमेवाऽथ, सहस्राक्ष उदायुधः । आगात् समवसरणेऽपश्यच्च घनवाहनम् ॥७॥
प्रशान्तकोपस्त्यक्तास्त्रः, प्रभावात् परमेशितुः । नत्वा प्रदक्षिणापूर्वं, यथास्थानमुपाविशत् ॥८॥ का सगरश्चक्रभृदथ, पप्रच्छ परमेश्वरम् । किं वैरकारणं स्वामिन्!, पूर्णमेघ-सुनेत्रयोः ॥९॥
आचख्यौ भगवानेवमादित्याभे पुरे पुरा । अभवद् भावनो नाम, द्रव्यकोटीश्वरो वणिक् ॥१०॥ स्वसूनोर्हरिदासस्य, सोऽर्पयित्वाऽखिलं धनम् । देशान्तरं वणिज्यायै, जगाम श्रेष्ठिभावनः ॥११॥ विदेशे द्वादशाब्दानि, स्थित्वोपाय॑ महद् धनम् । अययौ भावनश्रेष्ठी, तस्थौ च नगराद् बहिः ॥१२॥ तत्र मुक्त्वा परीवारमेकाक्यपि हि भावनः । निश्याययौ निजे सद्मन्युत्कण्ठा हि बलीयसी ॥१३॥
१ वृक्षसमीपम् ।
282828282828282828282828286
पूर्णमेघसुलोचनयोः पूर्वभवसम्बन्धः ।
॥१५५ ॥