SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥ १५४ ॥ FREREREREREREREREREREREDERER सेनापतिर्गृहपतिः, पुरोधा वर्धकिस्तथा । अपरे बहवः श्रेष्ठि- सार्थवाहादयोऽपि हि ॥ ३५९ ॥ स्नानपीठं तदारुह्याऽपाच्यसोपानवर्त्मना । निषेदुः स्वस्वस्थानेषु, ज्योतींषीव नभस्तले ॥३६०॥ ॥ युग्मम् ॥ तस्मिन् शुभे दिने वारे, नक्षत्रे करणेऽपि च । योगे चन्द्रे च लग्ने च, सर्वग्रहबलान्विते ॥ ३६१ ॥ अभिषेकं महीभर्तुश्चक्रुर्देवादयः क्रमात् । सौवर्णै राजतै रात्रैः, कलशैः कमलाननैः ॥ ३६२ ॥ ॥ युग्मम् ॥ वाससा देवदूष्येण, राज्ञोऽङ्गं ममृजुश्च ते । हस्तेन मृदुना सौधभित्ति चित्रकरा इव ॥ ३६३ ॥ दर्दर-मलयभवैरथ गन्धैः सुगन्धिभिः । राज्ञोऽङ्गं छुरयामासुर्ज्योत्स्नयेव नभस्तलम् ॥ ३६४ ॥ दिव्यं च सुमनोदामोद्दामगन्धद्धिबन्धुरम् । स्वानुरागमिव दृढं, बबन्धुर्मूर्ध्नि भूपतेः ॥ ३६५ ॥ वासांसि देवदूष्याणि, रत्नालङ्करणानि च । ततस्तदुपनीतानि, पर्यधाद् वसुधाधवः ॥ ३६६ ॥ ततश्चक्रधरस्तत्र, मेघध्वनितधीरया । गिरा स्वनगराध्यक्षं, समादिक्षदिति स्वयम् ॥ ३६७ ॥ अदण्ड-शुल्कामभटप्रवेशामकरामिमाम् । महोत्सवां कुरु पुरीं यावद् द्वादशवत्सरीम् ॥ ३६८ ॥ इत्याज्ञां नगराध्यक्षो, हस्त्यारूढैर्निजैर्नरैः । पुर्यामाघोषयामास, सद्यो डिण्डिमिकैरिव ॥ ३६९ ॥ इत्थं चक्रिपदाभिषेकपिशुनः षट्खण्डपृथ्वीपतेस्तस्य स्वर्नगरीविलासविभवस्तेयव्रतायां पुर । प्रत्यट्टं प्रतिमन्दिरं प्रतिपथं चाऽऽनन्दमुन्मुद्रयन्नुच्चैर्द्वादश वत्सराणि समभूत् तस्यां महानुत्सवः ॥ ३७० ॥ | इत्याचार्य श्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरषचरिते महाकाव्ये द्वितीये पर्वणि सगरदिग्जयचक्रवर्तित्वाभिषेकवर्णनो नाम चतुर्थः सर्गः । CREDERERERERERERERERERERERER द्वितीयं पर्व चतुर्थः सर्गः अजित सगर चरितम् । सगरस्य चक्रिपदा भिषेकः । ॥ १५४ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy