________________
त्रिषष्टिशलाका
पुरुषचरिते
।। १५३ ।।
EDEDEDEDEDEDEDEDEDEDEDEDEDY
महारत्नानि सेनानी-पुरोधो-गृहि-वर्धकीन् । त्रीणि त्रिषष्टियुक्तानि, सूपकारशतानि च ॥ ३४४॥ श्रेणिप्रश्रेणिका अष्टादश चाऽन्यानपि क्रमात् । दुर्गपाल - श्रेष्ठि- सार्थवाहादीन् व्यसृजत् स्वयम् ॥ ३४५ ॥ ॥ त्रिभिर्विशेषकम् ॥
सान्तःपुरपरीवारः, स्त्रीरत्नेन समन्वितः । सतां मन इवोदारं, राजा वेश्माविशन्निजम् ॥ ३४६ ॥ तत्र स्नानगृहे स्नात्वा, देवतावसरौकसि । कृतदेवार्चनो राजा, बुभुजे भोजनौकसि ॥ ३४७ ॥ सङ्गीतकैर्नाटकैश्च, विनोदैरपरैरपि । ततश्चाऽरंस्त सगरः, साम्राज्यश्रीलताफलैः ॥ ३४८ ॥ एत्याऽपरेद्युः सगरं, देवाद्या एवमभ्यद्युः । विदधे भारतं क्षेत्र, वशंवदमिदं त्वया ॥ ३४९ ॥ युष्माकं चक्रवर्तित्वाभिषेकमधुना वयम् । करिष्यामोऽर्हतो जन्माभिषेकमिव वासवाः ॥ ३५० ॥ अनुजज्ञे च तांश्चक्री, लीलोन्नमितया भ्रुवा । महात्मानः प्रणयिनां प्रणयं खण्डयन्ति न ॥ ३५१ ॥ अथाऽऽभियोगिका देवाः पुर्या उत्तरपूर्वतः । विचक्रुरभिषेकाय, मण्डपं रत्नमण्डितम् ॥ ३५२ ॥ समुद्र-तीर्थ-ह्रदिनी-ह्रदेभ्यः पावनीरपः । गिरिभ्यश्चौषधीर्दिव्यास्तत्राऽऽनिन्युर्दिवौकसः ॥ ३५३ ॥ अथ सान्तःपुरः सस्त्रीरत्नश्चक्रधरोऽविशत् । तं रत्नमण्डपं रम्यं, रत्नाचलगुहामिव ॥ ३५४ ॥ समृगेन्द्रासनं तत्र, स्नानपीठं मणीमयम् । नृपः प्रदक्षिणीकृत्याऽऽहिताग्निरिव पावकम् ॥ ३५५ ॥ सान्तःपुरस्तदारुह्य, पूर्वसोपानवर्त्मना । सिंहासनमलञ्चक्रे, प्राङ्मुखः पृथिवीपतिः ॥ ३५६ ॥ द्वात्रिंशद्राजसहस्राण्युदक्सोपानवर्त्मना । आरुह्य तत्र न्यषदन्, हंसा: कमलषण्डवत् ॥ ३५७ ॥ स्वस्वभद्रासनासीना, बद्धाञ्जलिपुटाश्च ते । तस्थुः स्वामिनि दत्ताक्षाः शक्रे सामानिका इव ॥ ३५८ ॥
FRERERERERERERERERERERERERY
द्वितीयं पर्व चतुर्थः सर्गः
अजित
सगर
चरितम् ।
सगरस्य चक्रिपदाभिषेकः ।
॥ १५३ ॥