________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व चतुर्थः सर्गः अजितसगरचरितम् ।
॥१५२ ॥
28282828282828282828282828
क्षणादवस्थावैचित्र्यं, प्रपेदे तव दर्शनात् । तत् त्रायस्व जगत्त्रातर्न यावत् सा विपद्यते ॥३३०॥ सौविदल्ले वदत्येवं, सहस्रनयनोऽपि सः । आययौ नभसा तत्र, नमश्चक्रे च चक्रिणम् ॥३३१॥ सोऽनुमान्य निजावासेऽनैषीत् सगरचक्रिणम् । स्त्रीरत्नस्य सुकेशाया, दानाच्च तमतोषयत् ॥ ३३२ ॥ ततश्च तौ विमानेन, सहस्रेक्षण-चक्रिणौ । वैताढ्यशैले ययतुः, पुरं गगनवल्लभम् ॥३३३ ॥ निवेश्य पैतके राज्ये, सहस्रनयनं ततः । सर्वविद्याधराधीशं, व्यधत्त धरणीधवः ॥३३४॥ स्त्रीरत्नं तदुपादाय, सगरश्चक्रवर्त्यथ । जगाम साकेतपुरं, पुरन्दरपराक्रमः ॥ ३३५ ॥ समुद्दिश्य विनीतां च, चक्रेऽष्टमतपो नृपः । पौषधं पौषधागारे, प्रपेदे च यथाविधि ॥ ३३६ ॥ अष्टमान्ते च निष्क्रम्य, पौषधागारतस्ततः । समं परिजनैश्चक्रे, पारणं धरणीधवः ॥ ३३७॥ पदे पदे तोरणिनी, भ्रूविकारवतीमिव । मुक्तास्वस्तिकसन्दोहकान्तिभिः सस्मितामिव ॥३३८ ॥ अदृशोभापताकाभिर्नर्तनायोद्धजामिव । धूपघट्युत्थधूमाल्या, कृतपत्रलतामिव ॥३३९॥ मञ्चस्थरत्नपात्रीभिर्नेत्रविस्तारिणीमिव । मञ्चैर्विचित्रैरचितशयनीयामिवोच्चकैः ॥३४०॥ विमानकिङ्किणीकाणैर्मङ्गलोद्गायनीमिव । पुरीं वासकसज्जां तां, प्रविवेश विशांपतिः ॥३४१ ॥
॥चतुर्भिः कलापकम् ॥ उत्तोरणमुत्पताकमुद्वैतालिकमङ्गलम् । विमानमिव शक्रः स्वं, गृहाङ्गणमगान्नृपः ॥ ३४२ ॥ सान्निध्यभाजां देवानां, स सहस्राणि षोडश । द्वात्रिंशतं सहस्राणि, तथा वसुमतीभुजाम् ॥३४३ ॥
१ म्रियते । २ कञ्चुकिनी। ३ प्रियसमागमवासरे सज्जाम् ।
28282828282828282828282828
सगरस्य विनीतायां प्रवेशः
॥१५२॥