________________
त्रिषष्टिशलाका
द्वितीयं पर्व चतुर्थः
पुरुषचरिते
सर्गः
॥१४५॥
अजितसगरचरितम् ।
सगरस्य दिग्विजयः।
282828282828282828282828282
सर्वधान्यानि शाकांश्च, फलादि च गृहाधिपः । प्रातरुप्त्वा ददौ सायं, रत्नमाहात्म्यमीदृशम् ॥ २२८ ॥ अखण्डिताभिर्धाराभिर्वर्षति स्म निरन्तरम् । तथैव ते मेघमुखा, दुर्वाग्भिरिव दुर्मुखाः । २२९ ॥ क एते मामुपद्रोतुं, प्रवृत्ता हन्त! दुर्धियः । एवं सकोपः सगरश्चिन्तयामास चेतसि ॥ २३० ॥ सान्निध्यकारिदेवानां, सहस्राः षोडशापि ते । कुपिता वर्मिताः सास्त्रास्तानुपेत्यैवमभ्यधुः ॥२३१ ॥ अरे वराकाः! किमिमं, सगरं चक्रवर्तिनम् । देवादीनामप्यजय्यं, न जानीथाऽल्पमेधसः? ॥२३२॥ अपसर्पत तत् तूर्णं, चेदात्मकुशलेच्छवः । अन्यथा खण्डयिष्यामो, युष्मान् कूष्माण्डवद् वयम् ॥ २३३ ॥ इत्युक्तास्तैर्मेघमुखा, मेघान् संहृत्य तत्क्षणम् । त्रस्तास्तिरोदधुः क्वापि, शफरा इव वारिणि ॥२३४ ॥ तदापातकिरातानां, गत्वा मेघमुखाः सुराः । आदिशंश्चक्रवत्र्येष, न जय्योऽस्मादृशामिति ॥ २३५ ॥ ततः किरातास्ते भीताः, स्त्रीवत् परिहितांशुकाः । रत्नोपायनमादाय, सगरं शरणं ययुः ॥२३६ ॥ पतित्वा पादयोश्चक्रवर्तिनो वशवर्तिनः । आबद्धाञ्जलयो मूर्ध्नि, ते किराता व्यजिज्ञपन् ॥ २३७ ॥ स्वामिन्नस्माभिरज्ञानात्, त्वां प्रतीदमनुष्ठितम् । शरभैः प्रति पर्जन्यं, फालकर्मेव दुर्मदैः ॥ २३८ ॥ अविमृश्यविधायित्वं, तत् तितिक्षस्व नः प्रभो! । प्रणिपातावसानो हि, कोपाटोपो महात्मनाम् ॥२३९ ॥ कुटुम्बिनः पत्तयो वा, सामन्ता वा त्वदाज्ञया । अतः परं भविष्यामस्त्वदधीना हि नः स्थितिः ॥२४०॥ चक्रयप्युवाच तानेवं, मदीयीभूय तिष्ठत । अपाग्भरतवर्षार्धसामन्ता इव दण्डदाः ॥ २४१ ॥ एवमालप्य सत्कृत्य, किरातान् व्यसृजन्नृपः । सेनान्यं चाऽऽदिशज्जेतुं, सिन्धोः पश्चिमनिष्कुटम् ॥ २४२ ॥
१ अस्त्रसहिताः । २ मत्स्याः । ३ अष्टापदैः ।
282828282828282828282828282
॥ १४५॥