________________
द्वितीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थः
सर्गः अजितसगरचरितम्।
॥१४४॥
282828282828282828282828286
हे वत्सा! हेतुना केन, यूयमेवं हि तिष्ठथ? । अविलम्बेन तं ब्रूत, यथा वः प्रतिकुर्महे ॥ २१३ ॥ ततः किराता इत्यूचुः, कोऽप्यसौ विषयेऽत्र नः । प्राविशद् दुःप्रवेशेऽपि, पयोधाविव वाडवः ॥ २१४ ॥ वयं तेन पराभूता, युष्मान् शरणमाश्रिताः । स यथा याति भूयोऽपि, नाऽऽयाति च तथाऽस्तु नः ॥२१५॥ तेऽप्यभ्यधुः सुरा एवं, कृशानोः शलभा इव । यूयमस्याऽनभिज्ञाः स्थ, तेनेदमभिधत्थ भोः! ॥ २१६ ॥ अयं हि सगरो नाम, चक्रवर्ती महाभुजः । सुराणामसुराणां चाऽविजय्यः शक्रविक्रमः ॥२१७॥ शस्त्रा-ऽग्नि-विष-मन्त्रा-ऽम्बु-तन्त्र-विद्याद्यगोचरः । उपद्रोतुं वज्र इव, नहि केनाऽपि शक्यते ॥ २१८॥ तथापि वोऽनुरोधेन, चक्रिणोऽस्य महौजसः । मशकाः कुञ्जरस्येव, करिष्याम उपद्रवम् ॥ २१९ ॥ इत्युदित्वा तिरोभूय, ते मेघवदनाः सुराः । स्कन्धावारोपरि स्थित्वा, तेनिरे घोरदुर्दिनम् ॥ २२०॥ नीरन्ध्रेणान्धकारेणाऽपूर्यन्त ककुभस्तथा । जनुषाऽन्धलवद् रूपं, नोपलेभे यथा जनः ॥ २२१॥ धाराभिस्तेऽथ मुसलमानाभिः शिबिरोपरि । सप्तरात्रं प्रववृषुरनिविण्णाः समीरवत् ॥ २२२ ॥ अरिष्टवृष्टिमच्छिन्नां, प्रेक्ष्य तां चक्रवर्त्यपि । स्वयं पाणिसरोजेन, चर्मरत्नं परामृशत् ॥ २२३ ॥ स्कन्धावारप्रमाणेन, ववृधे तत् क्षणादपि । तच्च तिर्यक् समास्तीर्णं, ततार सलिलोपरि ॥ २२४ ॥ महापोतमिवाऽऽरोहत्, ससैन्यस्तन्नरेश्वरः । छत्ररत्नं च संस्पृश्याऽतानयच्चर्मरत्नवत् ॥ २२५ ॥ चक्रे चर्मोपरि च्छत्रं, सोऽभ्रं भुव इवोपरि । मणिरत्नं न्यधाच्छत्रदण्डान्ते द्योतहेतवे ॥२२६॥ छत्र-चर्मान्तरे तस्थौ, तद् राज्ञः शिबिरं सुखम् । असुर-व्यन्तरगण, इव रत्नप्रभान्तरे ॥२२७॥
१ अग्नेः । २ दिशः। ३ जन्मान्धवत् । ४ मुसलप्रमाणाभिः । ५ अखण्डाम् । ६ पस्पर्श । ७ विस्तारितम् । ८ विस्तारयामास ।
828282828282828282828282828
सगरस्य दिग्विजयः।
॥१४४॥