________________
द्वितीयं पर्व चतुर्थः सर्गः अजितसगरचरितम् ।
आपाता नाम दुष्या॑ताः, किराता दोर्मदोद्धराः । सक्रोधं सोपहासं चाऽन्योऽन्यमेवं बभाषिरे ॥२०० ॥ त्रिषष्टि
॥पञ्चभिः कुलकम्॥ शलाकापुरुषचरिते
भो भोः सर्वेऽपि दोष्मन्तो, ब्रूत देशेऽत्र सम्प्रति । कोऽप्रार्थितप्रार्थकोऽयं, श्रीह्रीधीकीर्तिवर्जितः ॥२०१॥
निर्लक्षणो वीरमानी, मानेनान्धम्भविष्णुकः । कासरो हा! प्रविशति, वने केसर्यधिष्ठिते? ॥२०२॥ ॥१४३॥
॥युग्मम्॥ ||| इत्युदीर्य महावीर्या, अग्रानीकमुपाद्रवन् । म्लेच्छराजाश्चक्रपाणेर्वज्रपाणेरिवाऽसुराः ॥ २०३ ॥
नष्टद्विपं हतहयं, भग्नाक्षस्यन्दनं तथा । क्षणात् परावृत्तमिव, तदनीकमजायत ॥ २०४ ॥ स्वसैन्यं चक्रिसेनानी:, किरातैः प्रेक्ष्य विद्रुतम् । वैवस्वत इव कुद्धोऽध्यारोहद् रत्नवाजिनम् ॥ २०५ ॥ असिरत्नं समाकृष्य, धूमकेतुमिवोद्गतम् । प्रभञ्जन इवौजस्वी, प्रति म्लेच्छमधावत ॥ २०६ ॥ कानप्युन्मूलयामास, निष्पिपेष च कानपि । कानप्यपातयन्मलेच्छान्, स वनेभ इव द्रुमान् ॥ २०७॥ तेन भग्नाः किरातास्ते, निःस्थामानोऽपचक्रमुः । बहूनि योजनान्याशु, पवनोद्भूततूलवत् ॥ २०८ ॥ दूरे गत्वाऽथ सम्भूय, सिन्धुनद्यास्तटावनौ । वालुकास्रस्तरेष्वस्थुरुत्ताना मुत्तवाससः ॥२०९॥ देवान् मेघमुखान् नागकुमारान् कुलदेवताः । उद्दिश्याऽष्टमभक्तानि, जगृहुस्तेऽत्यमर्षणाः ॥२१० ॥ तदष्टमान्ते देवानामासनानि चकम्पिरे । दृशेवाऽवधिनाऽपश्यन्, किरातांस्ते तथास्थितान् ॥ २११ ॥ कृपया पितृवत् तेषामा जातातयोऽथ ते । तानुपेत्यान्तरिक्षस्थाः, प्रोचुर्मेघमुखा इति ॥ २१२ ॥
१ दुःखदः पातो येषां ते । २ महिषः। ३ यमः। ४ वायुरिव। ५ पीडया ।
282828282828282828282828286
282828282828282828282828288
सगरस्य दिग्विजयः।
॥१४३॥