________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व चतुर्थः सर्गः अजितसगरचरितम् ।
॥१४२ ॥
82828282828282828282828288
ततश्चक्रानुगश्चक्री, केसरीवास्खलद्गतिः । पञ्चाशद्योजनायामां, तमिस्रां प्राविशद् गुहाम् ॥१८६॥ गोमूत्रिकाक्रमेणाऽथ, गुहाभित्त्योर्द्वयोरपि । पञ्चधन्वशतीभाञ्जि, विष्कम्भा-ऽऽयाममानयोः ॥१८७॥ योजनान्तरितान्येकहीनां पञ्चाशतं नृपः । ध्वान्तनाशाय काकिण्या, मण्डलान्यालिखन् ययौ ॥१८८ ॥ उद्घाटितं गुहाद्वारं, गुहान्तर्मण्डलानि च । तावत् तान्यपि तिष्ठन्ति, यावञ्जीवति चक्रभृत् ॥१८९॥ मानुषोत्तरसीमस्थचन्द्र-सूर्यपरम्पराम् । विडम्बयद्भिरुयोतो, गुहान्तस्तैरजायत ॥१९० ॥ निर्यान्त्यौगुहाप्राग्भित्तेः, प्रत्यग्भत्तेश्चमध्यतः । प्रापोन्मग्ना-निमग्नाख्ये, निम्नगे सोऽथ सिन्धुगे॥१९१॥ उन्मग्नायां विनिक्षिप्ता, प्रोन्मञ्जति शिलाऽपि हि । निमग्नायां पुनः क्षिप्तमलाब्वपि निमञ्जति ॥ १९२॥ सद्यौ वर्धकिरत्नेन, बद्धया पद्यया च ते । अलङ्घत गृहस्रोतोलीलया सबलो नृपः ॥१९३ ॥ स क्रमेण तमिस्राया, उत्तरं द्वारमासदत् । व्यघटेतां तत्कपाटे, स्वयमेवाऽब्जकोशवत् ॥१९४ ॥ निर्जगाम गुहामध्यादब्धिमध्यादिवाऽर्यमा । सगरः सपरिवारो, वारणस्कन्धमाश्रितः ॥१९५ ॥ न्यत्कारकारिणं भानोः, सर्वतोऽप्यस्त्रदीप्तिभिः । भूरजोभिः खेचरीणां, दृग्निमेषविशेषदम् ॥१९६ ॥ सैन्यप्राग्भारभारेण, भूमिकम्पविधायिनम् । दिवस्पृथिव्योस्तुमुलध्वानैर्बाधिर्यदायिनम् ॥१९७॥ अप्यकाण्डे काण्डपटमध्यादिव विनिर्गतम् । नभस्तलादिवाऽऽयातं, पातालादिव चोत्थितम् ॥ १९८ ॥ अनन्तसैन्यगहनं, परश्चक्रेण भीषणम् । सगरं सागरमिवाऽऽपतन्तं प्रेक्ष्य तत्क्षणात् ॥१९९॥
82828282828282828282828282
सगरस्य दिग्विजयः।
॥१४२॥
१ नद्यौ। २ तरति । ३ तुम्बिका। ४ नद्यौ। ५ तिरस्कारकारिणम् । ६ बधिरत्वदायिनम् ।