________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व चतुर्थः सर्गः अजितसगरचरितम् ।
॥१४१॥
282828282828282828282828282
स्यन्दनान्यन्यदपि यत्, प्रकृष्टं वस्तु किञ्चन । सेनान्ये तदुपनिन्युासार्पितमिवाऽथ ते ॥१७२॥युग्मम् ॥ कुटुम्बिका इव वयं, करदा वशगाश्च वः । स्थास्यामोऽत्रेति सेनान्यं, ते बद्धाञ्जलयोऽवदन् ॥१७३ ॥ | तत्प्राभृतमुपादाय, व्यसृजत् तांश्चमूपतिः । एत्योत्ततार सिन्धुं च, चर्मरत्नेन पूर्ववत् ॥१७४ ॥ गत्वोपनिन्ये तत्सर्वं, सगराय स भूभुजे । कृष्टाश्चेट्य इवाऽऽयान्ति, शक्त्या शक्तिमतां श्रियः ॥१७५॥ दूरदूरादेत्य भूपैः, सरिद्भिरिव सागरः । उपास्यमानः सगरस्तत्राऽस्थाच्छिबिरे चिरम् ॥१७६ ॥ तमिस्रादक्षिणद्वारकपाटोद्धाटनाय सः । सेनान्यमन्यदाऽऽदिक्षद्, बिभ्राणं दण्डकुञ्चिकाम् ॥१७७॥ स गत्वोपतमिस्रं च, कृतमालामरं प्रति । चक्रेऽष्टमतपः प्रायस्तपोग्राह्या हि देवताः ॥ १७८ ॥ अष्टमान्ते कृतस्नानः, शुचिवस्त्रविलेपनः । उपात्तधूपदहनोऽगाद् गुहां देवतामिव ॥१७९ ॥ कृत्वा प्रणाममालोकमात्रेऽपि पृतनापतिः । तस्या द्वारे द्वास्थ इव, दण्डपाणिरवास्थित ॥१८० ॥ विधायाऽष्टाह्निकां तस्या, लिखित्वा चाऽष्टमङ्गलीम् । दण्डरत्नेन सेनानीस्तत्कपाटावताडयत् ॥१८१॥ सरत्सरिति संरावं, कुर्वाणौ तत्क्षणादथ । व्यघटेतां तत्कपाटौ, शुष्कशिम्बापुटाविव ॥१८२ ॥ कपाटोद्धाटनं तच्च, शशंस सगराय सः । सरत्सरिति निर्घोषकथितं पुनरुक्तवत् ॥१८३ ॥ हस्तिरत्नं समारुह्य, चतुरङ्गचमूवृतः । दिक्पालानामेकतम, इव तत्राऽऽययौ नृपः ॥१८४ ॥ निदधे दक्षिणे कुम्भे, कुम्भिरत्नस्य भूपतिः । मणिरत्नं मल्लिकायां, प्रदीपमिव भासुरम् ॥१८५॥
१ दास्यः । २ सर सर इतिरूपं शब्दम्। ३ दीपिकायाम् ।
282828282828282828282828282
सगरस्य दिग्विजयः।
॥१४१॥