________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व चतुर्थः
सर्गः
॥१४६ ॥
अजितसगरचरितम् ।
8282828282828282828282828A
चर्मणा पूर्ववत् सिन्धुमुत्तीर्य पृतनापतिः । गिरि-सागरमर्यादानजयत् सिन्धुनिष्कुटान् ॥ २४३ ॥ म्लेच्छानां दण्डमादाय, दण्डेशश्चण्डविक्रमः । आययौ सगरं वारिसम्पूर्ण इव वारिदः ॥ २४४ ॥ भोगान् विचित्रान् भुञ्जानः, सोऽय॑मानो महीश्वरैः । तत्रैवाऽस्थाच्चिरं नास्ति, विदेशः कोऽपि दोष्मताम् ॥२४५ ॥
अन्यदा चक्रिणश्चक्रं, निश्चक्रामाऽऽयुधौकसः । मार्गेणोत्तरपूर्वेण, ग्रीष्मे बिम्बमिवोष्णगोः ॥२४६ ॥ | गच्छंश्चक्रानुगो राजा, क्षुद्रस्य हिमवद्रेिः । नितम्बं दक्षिणं प्राप, दत्तावासोऽध्युवास च ॥ २४७ ॥
उद्दिश्य क्षुद्रहिमवत्कुमारं तत्र सोऽकरोत् । तपोऽष्टमं पौषधं चोपाददे पौषधौकसि ॥२४८॥ || पौषधान्ते रथारूढोऽगात् क्षुद्रहिमवगिरिम् । जघान च रथाओण, स त्रिर्दन्तेन दन्तिवत् ॥ २४९ ॥ नियम्य तुरगांस्तत्र, कृत्वाऽधिज्यं शरासनम् । निजनामाङ्कितं बाणं, विससर्ज नरेश्वरः ॥२५०॥ द्वासप्ततिं योजनानि, गत्वा क्रोशमिव क्षणात् । सोऽपतत् क्षुद्रहिमवत्कुमारस्य पुरो भुवि ॥ २५१ ॥ क्षणं चुकोप बाणेन, बाणनामाक्षरैः पुनः । क्षणादशाम्यत् स क्षुद्रहिमाचलकुमारकः ॥२५२ ॥ | गोशीर्षचन्दनं सर्वोषधीः पद्महदोदकम् । देवदूष्याणि तं बाणं, रत्नालङ्करणानि च ॥ २५३ ॥ | देवेद्रपुष्पमालाश्चोपनिन्ये सगराय सः । प्रत्यपद्यत सेवां च, जयेत्युक्त्वा नभःस्थितः ॥ २५४॥ तं विसृज्य ततो राजा, वालयित्वा निजं रथम् । ययावृषभकूटाद्रिं, त्रिर्जघान तथैव तम् ॥ २५५ ॥ अश्वान् नियम्य काकिण्या, प्राग्भागे तस्य भूभृतः । द्वितीयः सगरश्चक्रीत्यक्षराणि लिलेख सः ॥२५६ ॥ ततो रथं वालयित्वा, स्कन्धावारमुपेत्य च । विदधेऽष्टमभक्तान्तपारणं पृथिवीपतिः ॥ २५७ ॥
१ सूर्यस्य। ३ कल्पवृक्षपुष्पमालाः ।
82828282828282828282828282
सगरस्य दिग्विजयः।
॥१४६॥