________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व चतुर्थः सर्गः अजितसगरचरितम्।
॥१२९॥
2828282828282828282828282829
| चतुर्थः सर्गः । इतश्च सगरस्याऽस्त्रमन्दिरे मेदिनीभुजः । सुवर्णमयनेमीकं, लोहिताक्षमयारकम् ॥१॥ विचित्र-स्वर्णमाणिक्यघण्टिकाजालमालितम् । सनान्दीघोषममलमणि-मौक्तिकमण्डितम् ॥२॥ वज्रनिर्मितनाभीकं, किङ्किणीश्रेणिशोभितम् । सर्वर्तुकुसुमस्रग्भिरर्चितं सविलेपनम् ॥३॥ अन्तरिक्षस्थितं यक्षसहस्रसमधिष्ठितम् । नाम्ना सुदर्शन चक्ररत्नं समुदपद्यत ॥४॥॥ चतुर्भिः कलापकम् ॥ ज्वालामालाकरालं तच्चण्डांशोरिव मण्डलम् ।आविर्भूतं प्रेक्ष्य चक्रमायुधागारिकोऽनमत् ॥५॥ अथ तच्चक्रमर्चित्वा, विचित्रैः पुष्पदामभिः । शशंस मुदितो गत्वा, सत्वरं सगराय सः ॥६॥ सिंहासनं पादपीठं, पादुके अपि तत्क्षणम् । उज्झाञ्चकार सगरो, गुरुसन्दर्शनादिव ॥७॥ पदानि कतिचिद् दत्त्वा, चक्रं मनसिकृत्य सः । ननाम देवतीयन्ति, यदस्त्राण्यस्त्रजीविनः ॥८॥ सिंहासने स आसित्वा, चक्रोत्पत्तिनिवेदिने । सर्वं ददौ स्वाङ्गलग्नं, भूषणं पारितोषिकम् ॥९॥ ततश्च पावनैनीरैविधाय स्नानमङ्गलम् । दिव्यालङ्कार-वस्त्राणि, पर्यधत्त महीपतिः ॥१०॥ पद्भ्यां चचाल भूपालश्चक्ररत्नमथाऽर्चितुम् । पादचारेणोपस्थानं, पूजातोऽप्यतिरिच्यते ॥ ११ ॥ धावद्भिः प्रस्खलद्भिश्च, पतद्भिश्चाऽतिसम्भ्रमात् । सोऽन्वगामिनृपैः पादचारिभिः किङ्करैरिव ॥१२॥ सोऽनुसनेऽप्यनाहूतैः, पूजाद्रव्यकरैनरैः । स्वाधिकारप्रमादित्वं, भीतये ह्यधिकारिणाम् ॥१३॥
१ सुवर्णमयधारम्। २ रत्नविशेषः । ३ माङ्गल्यशब्दः । ४ समीपगमनम् ।
282828282828282828282828282
सगरस्य चक्ररत्नोत्पत्तिः तत्पूजा च।
॥१२९ ॥