________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ १२८ ॥
FREDE DE REDEREREREREDERERERE
जिनप्रणीतो धर्मोऽयं, न प्रमाणं तदा किमु ? । न प्रमाणमिति ब्रूयुस्ते तु पापा विशेषतः ॥ ९३१ ॥ बालिशोऽपीदृशं किंस्वित् कुर्याद् यद् भवता कृतम् ? । ईदृग् नातः परं कार्यमार्यपुत्राविचारितम् ॥ ९३२ ॥ अभिधायेति सम्यक्त्वस्थिरीकरणहेतवे । इमं भर्तारमेषा स्वमनैषीदस्मदन्तिके ॥ ९३३ ॥ तदेतन्मनसिकृत्याऽनेन पृष्टं द्विजन्मना । सम्यक्त्वस्य प्रभावोऽयमित्यस्माभिश्च कीर्तितम् ॥ ९३४ ॥ आकर्ण्य तच्च भगवद्वचनं बहवोऽपरे । प्राणिनः प्रत्यबुध्यन्त, स्थिरधर्माश्च जज्ञिरे ॥ ९३५ ॥ शुद्धभट्टस्तु भट्टिन्या, समं भगवदन्तिके। परिव्रज्यामुपादत्त, क्रमेणाऽऽप च केवलम् ॥ ९३६ ॥ तां देशनां स भगवानपि पारयित्वा स्थानात् ततो जगदनुग्रहणैकतानः । चक्रेण चक्रभृदिवाऽग्रचरेण धर्मचक्रेण भान् वसुमतीं विजहार नाथः ॥ ९३७ ॥ इत्याचार्य श्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये द्वितीये पर्वणि अजितस्वामिदीक्षाकेवलज्ञानवर्णनो नाम तृतीयः सर्गः ।
卐
事
१ शोभमानः ।
CREDEREREREREREDERERERERERES
द्वितीयं पर्व तृतीयः सर्गः अजित
सगर
चरितम् ।
सुलक्षणाशुद्धभट्टयोः
कथानकम् ।
॥ १२८ ॥