________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व तृतीयः
सर्गः
॥१२७॥
अजितसगरचरितम् ।
8888888888888888888888888
जिनादिष्टो न चेद् धर्मः, संसाराम्भोधितारणः । आप्ता यदि न चाऽर्हन्तः, सर्वज्ञास्तीर्थकारिणः ॥९१६ ॥ ज्ञान-दर्शन-चारित्राण्यध्वा यदि न निवृतेः । सम्यक्त्वं भुवि चेन्नास्ति, तन्मे सूनुः प्रदह्यताम् ॥९१७॥ अथाऽस्ति सर्वमप्येतज्जवलनः प्रज्वलन्नपि । जलवच्छीतलस्तर्हि, मत्पुत्रस्य भवत्वसौ ॥९१८ ॥ इत्युदित्वा स रोषेण, ज्वलनोऽन्य इव ज्वलन् । ज्वलने तत्र चिक्षेप, पुत्रं रार्भसिको द्विजः ॥ ९१९ ॥ अनार्येणाऽमुना बालो, दग्धो दग्धो हहा! स्वकः । एवमाक्रोशिनी पर्षत्, तमाचुक्रोश सा तदा ॥९२०॥ तत्रस्था देवता चैका, सम्यग्दर्शनशालिनी । सद्यश्चिक्षेप तं बालं, मध्येपनं द्विरेफवत् ॥ ९२१ ॥ ज्वालाजालकरालस्य, ज्वलतो ज्वलनस्य च । दाहशक्तिं जहाराऽऽशु, चित्रस्थमिव तं व्यधात् ॥ ९२२॥ पुरा विराद्धश्रामण्या, मृत्वा व्यन्तर्यभूद्धि सा । बोधिलाभं तया पृष्टो, व्याजहारेति केवली ॥९२३ ॥ भवत्याः सुलभा बोधिर्भवितव्यं त्वयाऽनघे! । सम्क्त्वभावनोद्योगनिष्ठया सुष्ठ तत्कृते ॥ ९२४ ॥ तद्वचो बिभ्रती नित्यं, हृदये हारयष्टिवत् । सम्यक्त्वमाहात्म्यकृते, सा जुगोप तमर्भकम् ॥९२५ ॥ प्रभावं तं तु सम्प्रेक्ष्य, विस्मयस्मेरचक्षुषः । जज्ञिरे ते द्विजन्मान, आजन्मादृष्टपूर्विणः ॥९२६ ॥ गत्वा वेश्मन्याचचक्षे, ब्राह्मण्यै ब्राह्मणः स तम् । जातप्रमोदः सम्यक्त्वानुभावानुभवं तदा ॥९२७ ॥ विपुलागणिनीगाढसंसर्गेण विवेकिनी । ब्राह्मणीत्यब्रवीद् धिग्धिक्, किमिदं विदधे त्वया? ॥ ९२८ ॥ सम्यक्त्वभाजः कस्याश्चिद, देवताया हि सन्निधेः । वक्रमप्यूजुतां प्राप्तमिदं ते कोपचापलम् ॥ ९२९ ॥ तदा हि देवता काऽपि, सम्यक्त्वैकप्रभाविका । सन्निधौ नाऽभविष्यच्चेत्, तदधक्ष्यत ते सुतः ॥ ९३०॥
१ साहसिकः । २ संयमविरादिना
828282828282828282828282828
सुलक्षणाशुद्धभटयोः कथानकम्।
॥१२७॥