________________
त्रिषष्टि
द्वितीयं पर्व तृतीयः
शलाकापुरुषचरिते
सर्गः
॥१२६॥
अजितसगरचरितम् ।
282828282828282828282828286
मिथ्यादृष्टिभिराम्नातो, हिंसाद्यैः कलुषीकृतः । स धर्म इति वित्तोऽपि, भवभ्रमणकारणम् ॥९०१॥ सरागोऽपि हि देवश्चेद्, गुरुरब्रह्मचार्यपि । कृपाहीनोऽपि धर्मः स्यात्, कष्टं नष्टं हहा! जगत् ॥९०२॥ शम-संवेग-निर्वेदा-ऽनुकम्पा-ऽऽस्तिक्यलक्षणैः । लक्षणैः पञ्चभिः सम्यक्, सम्यक्त्वमुपलक्ष्यते ॥९०३॥ स्थैर्य प्रभावना भक्तिः, कौशलं जिनशासने । तीर्थसेवा च पञ्चाऽस्य, भूषणानि प्रचक्षते ॥९०४ ॥ शङ्का काङ्क्षा विचिकित्सा, मिथ्यादृष्टिप्रशंसनम् । तत्संस्तवश्च पञ्चाऽपि, सम्यक्त्वं दूषयन्त्यलम् ॥९०५ ॥ व्याजहार ब्राह्मणोऽपि, दयिते! भाग्यवत्यसि । उपलब्धवती सम्यक्, सम्यक्त्वं यन्निधानवत् ॥९०६ ॥ शुद्धभट्टोऽपि तत्कालं, सम्यक्त्वं प्रत्यपद्यत । धर्मे धर्मोपदेष्टारः, साक्षिमात्रं शुभात्मनाम् ॥९०७॥ तौ सम्यक्त्वोपदेशेन, श्रावक्यभवतामुभौ । स्वर्णीस्यातां सिद्धरसात, सीसक-त्रपणी अपि ॥ ९०८ ॥ तत्र ह्यग्रहारे साधुसंसर्गाभावतस्तदा । लोकोऽश्रावकधर्मोऽभून्मिथ्यादृष्टिः क्रमेण च ॥९०९ ॥ कुलक्रमागतं धर्ममिमौ सन्त्यज्य दुर्धियौ । श्रावक्यभूतामित्यासीदपवादो जने तयोः ॥९१० ॥ अपवादमवज्ञाय, श्राद्धत्वे तस्थुषोस्तयोः । जज्ञे कालक्रमात् पुत्रो, गार्हमेध्यतरोः फलम् ॥९११ ॥ शिशिरे ब्राह्मणोऽन्येद्युः, प्रातरादाय तं सुतम् । विप्रपर्षत्परिवृतां, धर्मार्थाग्निष्टिकां ययौ ॥९१२ ॥
श्रावकोऽसीति परतो, गच्छ गच्छेति सक्रुधः । प्रचण्डाश्चण्डालमिव, तं समाचुक्रुशुर्द्विजाः ॥९१३ ॥ | तां धर्माग्निष्टिकां ते च, वेष्टयित्वा समन्ततः । तस्थुर्द्विजातयो जातिधर्मस्तेषां हि मत्सरः ॥९१४ ॥ ततो विलक्षः सङ्क्रद्धो, विलक्षैर्वचनैः स तैः । समक्षं पर्षदस्तस्याश्चक्रे सत्यापनामिति ॥ ९१५ ॥
१ ज्ञातोऽपि । २ श्रावको जातौ। ३ प्रतिज्ञाम् ।
282828282828282828282828286
सुलक्षणाशुद्धभट्टयोः कथानकम्।
॥१२६॥