________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व तृतीयः
सर्गः
॥१२५ ॥
अजितसगरचरितम् ।
282828282828282828282828282
मम त्वद्विरहे तस्मिन्, पतितायाः समाययौ । गणिनी विपुला नाम, विपुलैकदयानिधिः ॥८८६ ॥ तदर्शनेन मे दुःखं, भवद्विरहजं ययौ । मया प्राप्तं च सम्यक्त्वं, फलं मानुषजन्मनः ॥ ८८७ ।। शुद्धभट्टोऽप्यभाषिष्ट, सम्यक्त्वं किं नु भट्टिनि! । जन्मनो मानुषस्याऽस्य, फलभूतं यदुच्यते? ॥८८८ ॥ सुलक्षणाऽप्युवाचैवमार्यपुत्र! निशम्यताम् । कथनीयं तदिष्टानामभीष्टः प्राणतोऽप्यसि ॥८८९ ॥ या देवे देवताबुद्धिर्गुरौ च गुरुतामतिः । धर्मे च धर्मधीः शुद्धा, सम्यक्त्वमिदमुच्यते ॥८९० ॥ अदेवे देवबुद्धिर्या, गुरुधीरगुरौ च या । अधर्मे धर्मबुद्धिश्च, मिथ्यात्वं तद्विपर्ययात् ॥८९१॥ सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च, देवोऽर्हन् परमेश्वरः ॥ ८९२ ॥ ध्यातव्योऽयमुपास्योऽयमयं शरणमिष्यताम् । अस्यैव प्रतिपत्तव्यं, शासनं चेतनाऽस्ति चेत् ॥ ८९३ ॥ ये स्त्री-शस्त्रा-ऽक्षसूत्रादिरागाद्यङ्ककलङ्किताः । निग्रहा-ऽनुग्रहपरास्ते देवाः स्युन मुक्तये ॥८९४ ॥ नाट्या-ऽट्टहास-सङ्गीताद्युपप्लवविसंस्थुलाः । लम्भयेयुः पदं शान्तं, प्रपन्नान् प्राणिनः कथम्? ॥८९५ ॥ महाव्रतधरा धीरा, भैक्षमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥८९६ ॥ सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः । अब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु ॥८९७ ॥ परिग्रहारम्भमग्नास्तारयेयुः कथं परान्? । स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः ॥८९८ ॥ दुर्गतिप्रपतत्प्राणिधारणाद् धर्म उच्यते । संयमादिर्दशविधः, सर्वज्ञोक्तो विमुक्तये ॥८९९ ॥ अपौरुषेयं वचनमसम्भवि भवेद् यदि । न प्रमाणं भवेद् वाचां, ह्याप्ताधीना प्रमाणता ॥ ९०० ॥ १ज्ञानम्।
888888888828282828282828285
सम्यक्त्वमिथ्यात्वयोर्देवगुरुधर्मणांच स्वरूपम्।
॥१२५ ॥