________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व तृतीयः सर्गः अजितसगरचरितम्।
॥१२४॥
282828282828282828282828282
पितृक्षया-ऽर्थक्षयाभ्यां, पत्युर्विगमनेन च । चिरं निर्लक्षणम्मन्या, ताम्यति स्म सुलक्षणा ॥८७१ ॥ उद्विग्ना यावदस्थात् सा, तावदागात् तपात्यये । गणिनी विपुला नाम, तद्वहे वसतीच्छया ॥८७२ ॥ अर्पयामास वसति, विपुलायाः सुलक्षणा । शुश्राव च प्रतिदिनं, तन्मुखाद् धर्मदेशनाम् ॥ ८७३ ॥ ययौ तस्याश्च मिथ्यात्वं, धर्मदेशनया तया । अम्लस्य मधुरद्रव्यसम्बन्धेनाऽम्लता यथा ॥ ८७४ ॥ ततः परं साऽनवद्यं, सम्यक्त्वं प्रत्यपद्यत । कृष्णपक्षमतिक्रम्य, नैर्मल्यमिव शर्वरी ॥ ८७५ ॥ जीवा-ऽजीवादिपदार्थान्, सर्वानपि यथास्थितान् । वैद्यो दोषानिवाङ्गोत्थान्, यथावत् प्रत्यपद्यत ॥ ८७६॥ धर्मं जैनं च जग्राह, संसारोल्लङ्घनक्षमम् । सांयात्रिकः पोतमिव, सागरोत्तारणोचितम् ॥८७७॥ तस्या विषयवैराग्यमुपशान्तकषायता । निर्वेदो जन्म-मरणेष्वविच्छिन्नेषु चाऽभवत् ॥ ८७८ ॥ साध्वीशुश्रूषया सैवं, वर्षाकालमजीगमत् । रसाढ्यया जागरूकः, कथया रजनीमिव ।। ८७९ ॥ तस्या दत्त्वाऽणुव्रतानि, गणिनी साऽन्यतो ययौ । प्रायः प्रावष ऊद्धर्वं न, तिष्ठन्त्येकत्र संयताः ॥८८०॥ अर्जितद्रविणः सोऽपि, शुद्धभट्टो दिगन्तरात् । प्रियाप्रेमसमाकृष्टः, पारापत इवाऽऽययौ ॥८८१॥ उचे विप्रः प्रियामेवमसहिष्ठाः कथं प्रिये! । असोढपूर्विणी मद्वियोगं हिममिवाऽब्जिनी? ॥८८२ ॥ सुलक्षणाऽप्याचचक्षे, श्रूयतां जीवितेश्वर! । मरुस्थले मरालीव, शफरीवाऽल्पवारिणि ॥८८३ ॥ राहुवक्रे चन्द्रलेखेवैणिकेव दवानले । मृत्युद्वारे त्वद्विरहे, दुःसहे पतिताऽस्म्यहम् ॥८८४ ॥ अन्धकारे दीपिकेव, नौरिवाऽपारवारिणि । मरुस्थले वृष्टिरिव, दृष्टिरान्ध्य इवाऽनघा ॥८८५॥
१ साध्वीसमूहाग्रेसरा ।
8282828282828282828282828285
सुलक्षणाशुद्धभट्टयोः कथानकम्।
॥१२४॥