________________
त्रिषष्टिशलाका
पुरुषचरिते
द्वितीयं पर्व तृतीयः सर्गः अजितसगरचरितम् ।
॥१२३॥
28282828282828282828282828
वार्येव कुञ्जरवरो, देवायुःकर्म बध्यते । देवताः सन्निधीयन्ते, मन्त्रेणेव महौजसा ॥८५६ ॥ अथवा सर्वमप्येतत्, सम्यक्त्वफलमल्पकम् । महाफलं सिद्धिरपि, तीर्थकृत्त्वं च जायते ॥ ८५७ ॥ श्रुत्वेति मुदितो विप्रः, प्रणम्योचे कृताञ्जलिः । भगवन्नेवमेवेदं, न सर्वज्ञगिरोऽन्यथा ॥ ८५८ ॥ इत्युक्त्वा तंत्र तूष्णीके, स्थिते गणधराग्रणीः । जानन्नपि जनज्ञानकृतेऽपृच्छज्जगद्गुरुम् ॥ ८५९ ॥ किमनेन प्रभो! पृष्टं?, प्रभुणा कथितं च किम्? । सङ्केतवार्तासदृशमिदं बोधय नः स्फुटम् ॥८६०॥ आचख्यौ प्रभुरप्यस्यां, पुर्या अनतिदूरतः । अग्रहारो महानस्ति,, शालिग्रामाभिधानकः ॥८६१॥ तत्र दामोदरो नाम, वसति ब्राह्मणाग्रणीः । सधर्मचारिणी चाऽस्ति, तस्य सोमेति नामतः ॥८६२ ॥ शुद्धभट्टोऽभिधानेन, तयोश्च तनयोऽभवत् । दुहिता सिद्धभट्टस्य, तेन वोढा सुलक्षणा ॥ ८६३ ॥ सुलक्षणा-शुद्धभट्टी, प्रतिपद्य च यौवनम् । बुभुजाते यथाकामं, भोगान् स्वविभवोचितान् ॥ ८६४ ॥ कालक्रमेण पितरौ, विपेदाते तयोरथ । परिक्षयमुपेयाय, विभवः सोऽपि पैतृकः ॥ ८६५ ॥ क्षपायां क्षुधितोऽशेत, सुभिक्षेऽपि कदाऽप्यसौ । निर्धनस्य सुभिक्षेऽपि, दर्भिक्षं पारिपाश्चिकम् ॥ ८६६ ॥ जीर्णवासःखण्डधारी, पर्याट च कदाचन । पुरि राजपथे देशान्तरकर्पटिकोपमः ॥ ८६७ ॥ कदाचिच्चातक इव, चिरं तस्थौ पिपासितः । कदाचिन्मलमलिनः, पिशाच इव दुर्वपुः ॥ ८६८ ॥ लज्जितः सहवासिभ्योऽपीदृशेनाऽऽत्मना च सः । भार्याया अप्यनाख्याय, दुरं देशान्तरं ययौ ॥ ८६९ ॥ देशान्तरगतिं तस्य, भार्या कतिपयैर्दिनैः । वज्रपातसोदरया, जनश्रुत्याऽशृणोत् ततः ॥ ८७० ॥ १ गजबन्धनरञ्जुना। २ विप्रे। ३ समीपस्थम्। ४ भिक्षुकः ।
28282828282828282828282828
सुलक्षणाशुद्धभट्टयोः कथानकम्।
॥१२३॥