________________
त्रिषष्टि
द्वितीयं पर्व
तृतीयः
शलाकापुरुषचरिते
सर्गः अजितसगरचरितम् ।
॥१२२॥
P8888888888888888888888888
भगवन्तं नमस्कृत्य, सगरश्चक्रवर्त्यपि । पुरं जगाम साकेतं, श्रीसङ्केतनिकेतनम् ॥८४१॥ ततश्च तीर्थे तत्रैवोत्पन्नो यक्षश्चतुर्मुखः । श्यामवर्णो गजरथो, महायक्षोऽभिधानतः ॥ ८४२ ॥ वरदेन मुद्गरिणा, साक्षसूत्रेण पाशिना । चतुर्भिर्दक्षिणैर्हस्तैर्वामैस्तावद्भिरेव च ॥८४३ ॥ बीजपूरधरेणाऽभीदायिनाऽङ्कशधारिणा । सशक्तिना शोभितोऽभूत्, स्वामिनः पारिपाश्चिकः ॥८४४ ॥ देवताऽजितबला च, तदोत्पन्ना सुवर्णरुक् । भान्ती दक्षिणबाहुभ्यां, वरदेनाऽथ पाशिना ॥ ८४५ ॥ बीजपूरा-ऽङ्कशभृद्भयां, वामदोर्थ्यां च शोभिता । लोहासनस्था पार्श्वेऽस्थाद्, भर्तुःशासनदेवता ॥८४६॥ चतुस्त्रिंशदतिशयशोभितो भगवानपि । व्यहार्षीत् सिंहसेनादिपरिवारवृतो महीम् ॥८४७ ॥ बोधयन् भव्यभविनः, प्रतिग्राम-पुरा-ऽऽकरम् । कृपारत्नाकरः, प्राप कौशाम्बी प्रभुरन्यदा ॥८४८ ॥ तस्यां पूर्वोत्तरदिशि, क्षेत्रे योजनमात्रके। प्रभोः समवसरणं, पूर्ववद् विदधे सुरैः॥८४९॥ तत्राऽशोकतले सिंहासनासीनो जगत्पतिः । ससुरा-ऽसुर-मायां, देशनां पर्षदि व्यधात् ॥ ८५० ॥ एकं द्विजन्ममिथुनमथैत्य त्रिजगद्गुरुम् । प्रदक्षिणीकृत्य नत्वा, यथास्थानमुपाविशत् ॥ ८५१॥ कथान्तरे जगन्नाथं, द्विजन्ममिथुनाद् द्विजः । पप्रच्छ साञ्जलिरिदं, कथं नु भगवन्निति ॥ ८५२ ॥ शशंस प्रभुरप्येवं, सम्यक्त्वमहिमा ह्ययम् । सर्वानर्थनिषेधा-ऽर्थसिद्धयोरेकं निबन्धनम् ॥ ८५३ ॥ तेन शाम्यन्ति वैराणि, वृष्ट्येव दववह्नयः । नश्यन्ति व्याधयोऽशेषाः, सर्पा इव गरुत्मता ॥ ८५४ ॥ दुष्कर्माणि विलीयन्ते, हिमानीवाऽहिमांशुना । सिध्यत्यभीप्सितं चिन्तामणिनेव क्षणादपि ॥ ८५५ ॥ १ गजवाहनः। २ फलविशेषः। ३ अभयमुद्राङ्कितेन। ४ वार्ताप्रस्तावे। ५ महद् हिमम्। ६ सूर्येण ।
PSAUR888282828282828282828
अजितजिनशासनाधिष्ठायकदेव-देव्यौ।
द्विजन्मना सह
भगवतः संकेतवार्ता।
॥१२२॥