________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ १२१ ॥
¡EDEREREREREREREREDEREREREDE
उद्दामदुन्दुभिध्वानध्वनिताशेषदिङ्मुखः । उलूलुमुखरैश्चाऽनुगम्यमानो वधूजनैः ॥ ८२६ ॥ विष्वक् परिवृतः पौरैः, पद्मकोश इवाऽलिभिः । बलिः समवसरणं, पूर्वद्वाराऽध्वनाऽविशत् ॥ ८२७ ॥ ततः प्रदक्षिणीकृत्य, जगत्त्रयपतिं बलिः । तैः पुरश्चिक्षिपे दिव्यपुष्पवृष्टिविडम्बकः ॥ ८२८ ॥ नभस्तः पततस्तस्याऽगृह्णन्नर्धं दिवौकसः । सगरो भूगतस्याऽर्धं तच्छेषमपरे जनाः ॥ ८२९ ॥ बलेस्तस्य प्रभावेण, नश्यन्ति प्राग्भवा अपि । नोत्पद्यन्ते नूतनाश्च षण्मासान् यावदामयाः ॥ ८३० ॥ सिंहासनात् समुत्थायाऽथोत्तरद्वारवर्त्मना । निर्वाणवर्त्मनोऽग्रेगूर्निर्जगाम जगत्पतिः ॥ ८३१ ॥ एशानदिश्यूर्ध्वमध्यवप्रयोरन्तरस्थिते । देवच्छन्दे देवदेवो, विशश्राम ततः किल ॥ ८३२ ॥ सगरेणोपनीतेऽथ, तत्र सिंहासने स्थितः । अकरोद् देशनां सिंहसेनो गणधराग्रणीः ॥ ८३३ ॥ भगवत्स्थानमाहात्म्यात्, स तत्र गणभृद्वरः । सङ्ख्यातीतान् भवानाख्यद्, यच्च पप्रच्छ कश्चन ॥ ८३४ ॥ स्वामिपर्षदि तस्यां तं, सन्देहापोहकं तथा । छद्मस्थ इति नाऽज्ञासीद्, विना केवलिनं जनः ॥ ८३५ ॥ गुरोः खेदविनोदश्च, प्रत्ययश्च द्वयोरपि । गुरु-शिष्यक्रमश्चेति, गणभृद्देशनागुणाः ॥ ८३६ ॥ पौरुष्यां च द्वितीयायां सम्पूर्णायां गणाग्रणीः । व्यरंसीद् देशनातः स, पथिको गमनादिव ॥ ८३७ ॥ देशनाविरते तस्मिन् प्रणम्य परमेश्वरम् । चेलुर्निजनिजस्थानं, प्रति सर्वे दिवौकसः ॥ ८३८ ॥ गत्वा नन्दीश्वरद्वीपं, पर्वतेष्वञ्जनादिषु । शाश्वतार्हत्प्रतिमानां चक्रुस्तेऽष्टाह्लिकोत्सवम् ॥ ८३९ ॥ भूयो भूयोऽपि भूयान्नो, यात्रेदृगिति भाषिणः । ययुर्निजनिजं धाम, स्वर्धामानो यथागतम् ॥ ८४० ॥
१ गीतादिध्वनिः । २ रोगाः । ३ अग्रेगामी ४ सन्देहनाशकम् । ५ देवाः ।
CREDEREREDEREREREREREREREREI
द्वितीयं पर्व तृतीय: सर्गः
अजित
सगर
चरितम् ।
बलिः ।
गणभृद्देशना ।
॥ १२१ ॥