________________
द्वितीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थः
सर्गः अजितसगरचरितम् ।
॥१३०॥
328382828282828282828282828
विमानमिव देवेन, दीव्यदुद्दामतेजसा । सनाथं तेन चक्रेणाऽस्त्रागारं सगरो ययौ ॥१४॥ ननामाऽऽलोकमात्रेऽपि, पञ्चाङ्गस्पृष्टभूतलः । चक्ररत्नं नभोरत्नतुल्यं वसुमतीपतिः ॥ १५ ॥ सोऽमार्जद्धस्तविन्यस्तरोमहस्तस्तदञ्जसा । हस्त्यारोहो हस्तिवरमिव तल्पसमुत्थितम् ॥१६॥ आनीयाऽऽनीय पानीयकम्भैः पुम्भिः समर्पितैः । स चक्रं स्नपयामास, देवताप्रतिमामिव ॥१७॥ चन्दनस्थासकांस्तत्र, स्थापयामास पार्थिवः । तदूरीकारदत्तस्वहस्तलक्ष्मीविडम्बिनः ॥ १८ ॥ नृपतिश्चक्ररत्नस्य, विचित्रैः पुष्पदामभिः । जयलक्ष्मीपुष्पगृहोपमा पूजां चकार च ॥ १९ ॥ गन्धांश्च चर्णवासांश्च, चक्रे चिक्षेप चक्रभृत् । प्रतिमायामिवाऽऽचार्यः, प्रतिष्ठासमये स्वयम् ॥२०॥ देवताहर्महामूल्यैर्वस्त्रालङ्करणैरपि । अलञ्चक्रे चक्ररत्नमात्मानमिव पार्थिवः ॥ २१॥ लिलेखाऽष्टौ मङ्गलानि, पुरोऽष्टाशाजयश्रियाम् । आकर्षणायाऽभिचारमण्डलानीव भूपतिः ॥ २२ ॥ अकरोदग्रतस्तस्य, कुसुमैः पञ्चवर्णकैः । सारगन्धैरुपहारं, राजर्तुरिव सप्तमः ॥ २३ ॥ घनसारा-ऽगुरुसारं, धूपं तस्याऽग्रतोऽदहत् । धूमैनरेन्द्रः कस्तूरीविलेपनमिवाऽऽदधत् ॥ २४ ॥ तत्रिः प्रदक्षिणीकृत्य, सोऽपसृत्य च किञ्चन । चक्रं चक्री नमश्चक्रे, जयश्रीजन्मसागरम् ॥ २५ ॥ विदधेऽष्टाह्निकां तस्य, चक्ररत्नस्य तत्र सः । देवताया इव नवप्रतिष्ठाया महीपतिः ॥ २६ ॥ ऋद्ध्या महत्या चक्रस्य, चक्रे पूजामहोत्सवः । पौरैरपि पुरीपद्रदेवताया इवाऽखिलैः ॥२७॥ ततो वसुमतीनाथः, स्वं जगाम निकेतनम् । चक्रेणाऽऽमन्त्रित इव, दिग्यात्रायै समुत्सुकः ॥ २८ ॥
१ सूर्यतुल्यम्। २ हस्तधृतमयूरपिच्छमार्जनिकः । ३ हस्तिपकः । ४ सुप्तोत्थितम्। ५ अष्टदिग्जयलक्ष्मीणाम् ।
828282828282828282828282828
चक्ररत्नस्य पूजा।
॥१३०॥