________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व तृतीयः सर्गः अजितसगरचरितम् ।
॥११८ ॥
8282828282828282828282828
सौधर्मकल्पादारभ्य, सर्वार्थं यावदेषु च । स्थित्या दीप्त्या प्रभावेण, विशुद्धया लेश्यया सुखैः ॥ ७८२ ॥ | इन्द्रियाणां विषयेणाऽवधिज्ञानेन चाऽमराः । भवन्ति पूर्वपूर्वेभ्योऽभ्यधिका उत्तरोत्तराः ॥७८३ ॥ परिग्रहा-ऽभिमानाभ्यां, वपुषा गमनेन च । हीनहीनतरा एते, भवन्ति तु यथाक्रमम् ॥ ७८४ ॥ जायते सर्वजघन्यस्थितीनां त्रिदिवौकसाम् । सप्तस्तोकान्त उच्छ्वास, आहारस्तु चतुर्थतः ॥ ७८५ ॥ पल्योपमस्थितीनां तु, भवति त्रिदिवौकसाम् । दिवसस्यान्तरुच्छ्वास, आहारोऽहःपृथक्त्वतः ॥ ७८६ ॥ यावन्तः सागरा यस्य, तावन्मासार्धकैः पुनः । उच्छासस्तस्य तावद्भिराहारोऽब्दसहस्रकैः ॥ ७८७॥ देवाः सद्वेदनाः प्रायो, यद्यसद्वेदनाः पुनः । अन्तर्मुहूर्त्तकालं स्युर्मुहूर्तात् परतो न हि ॥७८८ ॥ आ एशानात् समुत्पत्तिर्देवीनां गतिराऽच्युतात् । उत्पद्यन्ते तापसास्तु, ज्योतिष्कत्रिदशावधि ॥ ७८९ ॥ आ ब्रह्मलोकाच्चरक-परिव्राजां तु सम्भवः । पञ्चेन्द्रियतिरश्चामा सहस्रारं पुनर्जनिः ॥७९०॥ श्राद्धानामच्युतं मिथ्यादृशां तु जिनलिङ्गिनाम् । सामाचारीपालकानामन्त्यग्रैवेयकावधि ॥७९१॥ ब्रह्मलोकादिसर्वार्थसिद्धान्तं पूर्णपूर्विणाम् । साधु-श्राद्धानां सौधर्मे, सव्रतानां जघन्यतः ॥७९२ ॥ आ एशानाच्च भवनवास्याद्यास्त्रिदिवौकसः । भवन्त्यङ्गप्रवीचारास्ते हि सक्लिष्टकर्मकाः ॥७९३ ॥ तीव्रानुरागाः सुरते, लीयमाना मनुष्यवत् । सर्वाङ्गीणस्पर्शसुखात्, प्रीतिमासादयन्ति तु ॥७९४॥॥युग्मम् ॥ शेषाः स्पर्श-रूप-शब्दप्रवीचारा द्वयोर्द्वयोः । मनःप्रवीचारभृतश्चतुषु चाऽऽनतादिषु ॥ ७९५ ॥ अमरेभ्यः प्रवीचारवद्भ्योऽनन्तसुखात्मकाः । अपरेष्वप्रवीचारा, देवा ग्रैवेयकादिषु ॥ ७९६ ॥
१ पूर्णचतुर्दशपूर्विणाम् ।
182828282828282828282828282
उद्धर्वलोकः ।
वैमानिकाः।
॥ ११८॥