________________
त्रिषष्टिशलाका
द्वितीयं पर्व तृतीयः
पुरुषचरिते
सर्गः
॥११९ ॥
अजितसगरचरितम्।
28282828282828282828282828
इत्यधस्तात् तिर्यगू भेदो लोकोऽस्य मध्यतः । त्रसनाड्यस्ति च चतुर्दशरज्जुप्रमाणिका ॥७९७ ॥ उद्धर्वा-ऽधोभागयो रज्जुप्रमाणायाम-विस्तृतिः । अन्तस्त्रसाः स्थावराश्च, स्थावरा एव तद्वहिः ॥७९८ ॥ विस्तारेऽधः सप्तर रेकरज्जुश्च मध्यतः । ब्रह्मलोके पञ्चरज्जुः, पर्यन्ते चैकरज्जुकः ॥७९९ ॥ सुप्रतिष्ठाकृतिर्लोको, न केनाऽपि कृतो धृतः । स्वयंसिद्धो निराधारो, व्योम्नि तिष्ठति किन्त्वसौ ॥८००॥
॥युग्मम्॥ अमुं लोकं समस्तं वा, व्यस्तं वाऽपि हि चिन्तयेत् । धीमान् शुभेतरध्यानप्रतिषेधनिबन्धनम् ॥८०१॥ धर्मध्याने भवेद् भावः, क्षानोपशमिकादिकः । लेश्याः क्रमविशुद्धाः स्युः, पीत-पद्म-सिताः पुनः ॥८०२॥ अस्मिन् नितान्तवैराग्यव्यतिषङ्गतरङ्गिते । जायते देहिनां सौख्यं, स्वसंवेद्यमतीन्द्रियम् ॥८०३ ॥ त्यक्तसगास्तनुं त्यक्त्वा, धर्मध्यानेन योगिनः । ग्रैवेयकादिस्वर्गेषु, भवन्ति त्रिदशोत्तमाः ॥८०४॥ महामहिमसौभाग्यं, शरच्चन्द्रनिभप्रभम् । प्राप्नुवन्ति वपुस्तत्र स्रग्भूषा-ऽम्बरभूषितम् ॥८०५ ॥ विशिष्टवीर्यबोधाढ्यं, कामार्तिज्वरवर्जितम् । निरन्तरायं सेवन्ते, सुखं चाऽनुपम चिरम् ॥ ८०६ ॥ इच्छासम्पन्नसर्वार्थमनोहारिसुखामृतम् । निर्विघ्नमुपभुञ्जाना, गतं जन्म न जानते ॥८०७॥ दिव्यभोगावसाने च, च्युत्वा त्रिदिवतस्ततः । उत्तमेन शरीरेणाऽवतरन्ति महीतले ॥८०८ ॥ दिव्यवंशे समुत्पन्ना, नित्योत्सवमनोरमान् । भुञ्जते विविधान् भोगानखण्डितमनोरथाः ॥८०९ ॥ ततो विवेकमाश्रित्य, विरज्याऽशेषभोगतः । ध्यानेन ध्वस्तकर्माणः, प्रयान्ति पदमव्ययम् ॥८१० ॥
१ सम्बन्धः । २ वैराग्यं प्राप्य ।
2828282828282828282828282
उद्धर्वलोकः । वैमानिकाः ।
॥ ११९ ॥