________________
त्रिषष्टि
शलाका
पुरुषचरि
॥ ११७ ॥
PEREREREREREREREREREREREDERY
४ ॥
घनोदधिप्रतिष्ठानौ, कल्पौ तु प्रथमाविह । वायुकृतप्रतिष्ठानास्त्रयः कल्पास्ततः परम् ॥ ७६८ ॥ घनोदधि-घनवातप्रतिष्ठानास्ततस्त्रयः । ततस्तदूद्धर्वमाकाशप्रतिष्ठानाः सुरालयाः ॥ ७६९ ॥ इन्द्राः सामानिकास्त्रायस्त्रिंशाः पार्षद्य-रक्षकाः । लोकपाला अनीकानि, प्रकीर्णा आभियोगिकाः ॥ ७७० ॥ किल्बिषिकाश्चेति तेषु, दशभेदा दिवौकसः । इन्द्राः सामानिकादीनामधिपाः सर्वनाकिनाम् ॥ ७७१ ॥ सामानिकाश्चेन्द्रसमाः, परमिन्द्रत्ववर्जिताः । त्रायस्त्रिंशा मन्त्रि-पुरोहितप्राया हरेः पुनः ॥ ७७२ ॥ वयस्यप्रायाः पार्षद्या, आत्मरक्षास्तु रक्षकाः । आरक्षकार्थनृचरस्थानीया लोकपालकाः ॥ ७७३ ॥ तन्त्रप्रायाण्यनीकानि, प्रकीर्णा ग्राम्य- पौरवत् । दासप्राया आभियोग्याः, किल्बिषाश्चान्त्यजोपमाः ॥ ७७४ ॥ ज्योतिष्क-व्यन्तरास्त्रायस्त्रिंश- लोकपवर्जिताः । विमानलक्षाः सौधर्मे, द्वात्रिंशत् त्रिदिवौकसाम् ॥ ७७५ ॥ एशान-सनत्कुमार-माहेन्द्र - ब्रह्मणामपि । अष्टाविंशतिर्द्वादशाऽष्टौ चत्वारः क्रमेण तु ॥ ७७६ ॥ लक्षार्धं लान्तके शुक्रे, चत्वारिंशत् सहस्रकाः । षट् सहस्राः सहस्रारे, युगले तु चतुःशती ॥ ७७७ ॥ त्रिशत्यारणा - ऽच्युतयोराद्ये ग्रैवेयकत्रिके । शतमेकादशाग्रं तु मध्ये सप्तोत्तरं पुनः ॥ ७७८ ॥ विमानानां शतं त्वेकमन्त्यग्रैवेयकत्रिके । अनुत्तरविमानानि, पञ्चैव हि भवन्ति तु ॥ ७७९ ॥ एवं देवविमानानां, लक्षाशीतिश्चतुर्युता । सप्तनवतिः सहस्त्रास्त्रयोविंशतिरेव च ॥ ७८० ॥ अनुत्तरविमानेषु चतुर्षु विजयादिषु । देवा द्विचरमा एकचरमाः पञ्चमे पुनः ॥ ७८१ ॥
१ आरक्षकार्थं चारपुरुषसदृशाः । २ सेनासदृशानि । ३ लोकपालाः । ४ मनुष्यभवद्वयेन सिद्धिगामिनः ।
PEREREREREREDEREREREDERERERY
द्वितीयं पर्व तृतीयः सर्गः अजित
सगर
चरितम् ।
उद्धर्वलोकः वैमानिका: ।
॥ ११७ ॥