________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व तृतीयः सर्गः अजितसगरचरितम्।
॥११६ ॥
8282828282828282828282828282
आदौ सुदर्शनं नाम, सुप्रबुद्धं मनोरमम् । सर्वभद्रं सुविशालं, सुमनश्च ततः परम् ॥७५३ ॥ सौमनसं प्रीतिकरमादित्यमथ तत्परम् । अनुत्तराभिधानानि, पञ्च सन्ति ततः परम् ॥७५४ ॥ विजयं वैजयन्तं च, जयन्तं चाऽपराजितम् । प्राक्क्रमेण विमानानि, मध्ये सर्वार्थसिद्धकम् ॥७५५ ॥ ततो द्वादशयोजन्या, ऊद्धर्वं सिद्धिशिलाऽस्ति तु । पञ्चचत्वारिंशल्लक्षयोजनायाम-विस्तृता ॥७५६॥ ततोऽप्युपरि गव्यूतत्रितयात् समनन्तरम् । तुर्यगव्यूतषष्ठांशे, सिद्धा लोकाग्रतावधि ॥७५७॥ आ सौधर्मेशानकल्पं, सार्धा रञ्जः समावनेः । सनत्कुमार-माहेन्द्रौ, सार्धं रज्जुद्वयं पुनः ॥७५८ ॥ रज्जवश्चाऽऽ सहस्रारं, पञ्च षट् चाऽच्युतावधि । लोकान्तमवधीकृत्य, जायन्ते सप्त रज्जवः ।। ७५९ ॥ सौधर्मेशानकल्पौ तु, चन्द्रमण्डलवर्तुलौ । दक्षिणार्धे तत्र शक्र, एशानश्चोत्तरार्धके ॥७६०॥ सनत्कुमारमाहेन्द्रावप्येवं तत्समाकृती । सनत्कुमारोऽपाच्यार्धे , माहेन्द्रस्तूत्तरार्धके॥७६१॥ लोकपुंस्कूर्परसमप्रदेशेऽतः परं पुनः । लोकमध्यभागे ब्रह्मलोको ब्रह्मा च तत्प्रभुः ॥७६२॥ प्रान्ते सारस्वता-ऽऽदित्या-ऽग्न्यरुण-गर्दतोयकाः । तुषिता-ऽव्याबाध-मरुद्रिष्टा लोकान्तिकामराः ॥७६३॥ तदूर्ध्वं लान्तकः कल्पस्तन्नामा तत्र वासवः । तस्योपरि महाशुक्र, इन्द्रस्तन्नामकोऽत्र च ॥७६४ ॥ तदूर्ध्वं च सहस्रारस्तन्नामा तत्र वासवः । सौधर्मेशानसंस्थानावानत-प्राणतो ततः ॥ ७६५ ॥ तयोः प्राणतकल्पस्थः, प्राणताख्यः पुरन्दरः । तदूद्धर्वं च तदाकारौ, द्वौ कल्पावारणा-ऽच्युतौ ॥७६६॥ तयोरच्युतवास्तव्य, एक इन्द्रोऽच्युताभिधः । ग्रैवेयकाऽनुत्तरेषु, त्वहमिन्द्रा दिवौकसः ॥७६७॥
१ सौधर्मशानकल्पसदृशौ।
8282828282828282828282828282
उर्द्धवलोकः।
॥११६ ॥