________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व तृतीयः
सर्गः अजितसगरचरितम् ।
॥११५॥
1282828282828282828282828288
सर्वर्द्धयस्तासु देवाः, कुर्वते सपरिच्छदाः । चैत्येष्वष्टाह्निकाः पुण्यतिथिषु श्रीमदर्हताम् ॥७३८ ॥ नन्दीश्वरपरिक्षेपी, ततो नन्दीश्वरोऽर्णवः । ततः परोऽरुणद्वीपोऽस्त्यरुणोदश्च सागरः ॥७३९ ॥ ततोऽरुणवरो द्वीपस्तन्नामा च पयोनिधिः । ततः परोऽरुणाभासोऽरुणाभासश्च सागरः॥७४०॥ ततश्च कुण्डलद्वीपः, कुण्डलोदश्च वारिधिः । ततश्च रुचकद्वीपो, रुचकश्च पयोनिधिः ॥७४१॥ एवं प्रशस्तनामानो, द्विगुणाद्विगुणाः क्रमात् । द्वीपाः समुद्रास्तेष्वन्त्यः, स्वयम्भूरमणोऽम्बुधिः ॥७४२॥ द्वीपेष्वर्धतृतीयेषु, देवोत्तरकुरून् विना । भरतैरावत-महाविदेहाः कर्मभूमयः ॥ ७४३ ॥ कालोदः पुष्करोदश्च, स्वयम्भूरमणस्तथा । पानीयरसा लवणरसस्तु लवणोदधिः ॥ ७४४ वारुणोदश्चित्रपानहृद्यः क्षीरोदधिः पुनः । खण्डमिश्र-धृतचतुर्भागगोक्षीरसन्निभः ॥७४५ ॥ घृतोदः सद्यःकथितगोघृताभोऽपरे पुनः । चतुर्जातकवत्पर्वान्तच्छिन्नेक्षुरसोपमाः ॥७४६ ॥ लवणोदोऽथ कालोदः, स्वयम्भूरमणोऽपि च । मत्स्य-कूर्मादिसङ्कीर्णाः, सागरा नाऽपरे पुनः ॥७४७॥ चत्वारस्तत्र तीर्थेशश्चक्रिणो विष्णवो बलाः । सदा भवन्ति द्वीपेऽस्मिन्, जम्बूद्वीपे जघन्यतः ॥ ७४८ ॥ उत्कर्षेण चतुस्त्रिंशञ्जिनास्त्रिंशच्च पार्थिवाः । भवन्ति द्विगुणाश्चैते, धातकी-पुष्करार्धयोः ॥७४९ ॥ तिर्यग्लोकादितश्चोर्ध्वमूर्वलोको महद्धिकः । नवयोजनशत्यूनसप्तरज्जुप्रमाणकः ॥७५०॥ तत्र सौधर्म ईशानः, सनत्कुमार इत्यपि । माहेन्द्रो ब्रह्मलोकश्च, लान्तकः शुक्रसंज्ञकः ॥७५१॥ सहस्रारा-ऽऽनत-प्राणता-ऽऽरणा अच्युतोऽपि च । कल्पा इति द्वादशाऽमी, नवग्रैवेयका इमे ॥७५२॥
१ राजधानीषु। २ देवलोकाः ।
282828282828282828282828282
उद्धर्वलोकः ।
॥११५॥