________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर तृतीयः सर्गः अजितसगरचरितम्
॥११४॥
282828282828282828282828288
भद्रा विशाला कुमुदा, पुण्डरीकिणिका तथा । विजया वैजयन्ता च, जयन्ता चाऽपराजिता ॥ ७२३ ॥ प्रत्येकमासां योजनपञ्चशत्याः परत्र च । योजनानां पञ्चशती, यावद् विस्तारभाञ्जि तु ॥ ७२४ ॥ लक्षयोजनदीर्घाणि, महोद्यानानि तानि तु। अशोक-सप्तच्छदक-चम्पक-चूतसंज्ञया ॥ ७२५ ॥ मध्ये पुष्करिणीनां च, स्फाटिकाः पल्यमूर्तयः । ललाम-वेद्युद्यानादिचिह्ना दधिमुखाद्रयः ॥७२६ ॥ चतुःषष्टिसहस्रोच्चाः, सहस्रं चाऽवगाहिनः । विस्तृता दशसही, योजनानामुपर्यधः ॥ ७२७ ॥ अन्तरे पुष्करिणीनां, द्वौ द्वो रतिकराचलौ । ततो भवन्ति द्वात्रिंशदेते रतिकराचलाः ॥७२८ ॥ शैलेषु दधिमुखेषु, तथा रतिकराद्रिषु । शाश्वतान्यर्हच्चैत्यानि, सन्त्यञ्जनगिरिष्विव ॥ ७२९ ॥ चत्वारो द्वीपविदिक्षु, तथा रतिकराचलाः । दशयोजनसहस्रायाम-विष्कम्भशालिनः ॥७३० ॥ योजनानां सहस्रं तु, यावदुच्छ्रयशोभिताः । सर्वरत्नमया दिव्या, झलाकारधारिणः ॥७३१॥ तत्र द्वयो रतिकराचलयोर्दक्षिणस्थयोः । शक्रस्यैशानस्य पुनरुत्तरस्थितयोः पृथक् ॥ ७३२ ॥ अष्टनां महादेवीनां, राजधान्योऽष्टदिक्षु ताः । लक्षाबाधा लक्षमाना, जिनायतनभूषिताः ॥७३३ ॥ सुजाता सौमनसा चाऽर्चिमाली च प्रभाकरा । पद्मा शिवा शुच्यञ्जने, भूता भूतावतंसिका ॥ ७३४ ॥ गोस्तूपा-सुदर्शने अप्यमला-ऽप्सरसौ तथा । रोहिणी नवमी चाऽथ, रत्ना रत्नोच्चयाऽपि च ॥ ७३५ ॥ सर्वरत्ना रत्नसञ्चया वसुर्वसुमित्रिका । वसुभागाऽपि च वसुन्धरानन्दोत्तरे अपि ॥ ७३६ ॥ नन्दोत्तरकुरुर्देवकुरुः कृष्णा ततोऽपि च । कृष्णराजीरामारामरक्षिताः प्राक्क्रमादमूः ॥७३७ ॥
१ पल्याकृतयः । २ रतिकराल्लक्षयोजनदूरे ।
282828282828282828282828288
नन्दीश्वरः।
॥ ११४।