________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व तृतीयः सर्गः अजितसगरचरितम्।
॥ ११३॥
12828282828282828282828282823
दशयोजनसहस्रातिरिक्तविस्तृतास्तले । सहस्रयोजनाचोद्धर्वं, क्षुद्रा मेरूच्छ्रयाश्च ते ॥७०७॥ तत्र प्राग् देवरमणो, नित्योद्योतश्च दक्षिणः । स्वयम्प्रभः प्रतीच्यस्तु, रमणीय उदस्थितः ॥७०८॥ शतयोजन्यायतानि, तदर्धं विस्तृतानि च । द्विसप्ततियोजनोच्चान्यर्हच्चैत्यानि तेषु च ॥७०९ ॥ पृथग्द्वाराणि चत्वार्युच्चानि षोडशयोजनीम् । प्रवेशे योजनान्यष्ट, विस्तारेऽप्यष्ट तेषु तु ॥७१० ॥ तानि देवाऽसुर-नाग-सुपर्णानां दिवौकसाम् । समाश्रयास्तेषामेव, नामभिर्विश्रुतानि च ॥७११॥ षोडशयोजनायामास्तावन्मात्र्यश्च विस्तृतौ । अष्टयोजनिकोत्सेधास्तन्मध्ये मणिपीठिकाः ॥७१२॥ सर्वरत्नमया देवच्छन्दकाः पीठिकोपरि । पीठिकाभ्योऽधिकायामोच्छ्यभाजश्च तेषु तु ॥७१३ ॥ ऋषभावर्धमाना च, तथा चन्द्राननाऽपि च । वारिषेणा चेति नाम्ना, पर्यङ्कासनसंस्थिताः ॥७१४ ॥ रलमय्यो युताः स्वस्वपरिवारेण हारिणा । शाश्वतार्हत्प्रतिमाः प्रत्येकमष्टोत्तरं शतम् ॥ ७१५ ॥ द्वे द्वे नाग-यक्ष-भूत-कुण्डभृत्प्रतिमे पृथक् । प्रतिमानां पृष्ठतस्तु, च्छत्रभृत्प्रतिमैकिका ॥७१६ ॥ तेषु धूपघटी-दाम-घण्टा-ऽष्टमङ्गली-ध्वजाः । छत्र-तोरण-चङ्गेर्यः, पटलान्यासनानि च ॥७१७ ॥ षोडश पूर्णकलसादीन्यलङ्करणानि च । सुवर्णरुचिररजोवालुकास्तलभूमयः ॥७१८ ॥ आयतनप्रमाणेन, रुचिरा मुखमण्डपाः । प्रेक्षार्थमण्डपा अक्षवाटिका मणिपीठिकाः ॥७१९ ॥ रम्याश्च स्तूप-प्रतिमाश्चैत्यवृक्षाश्च सुन्दराः । इन्द्रध्वजाः पुष्करिण्यो, दिव्याः सन्ति यथाक्रमम् ॥ ७२० ॥ प्रत्येकमञ्जनाद्रीणां, ककुप्सु चतसृष्वपि । क्रमादमूः पुष्करिण्यो, मानतो लक्षयोजनाः ॥७२१॥ नन्दिषेणा चाऽमोघा च, गोस्तूपाऽथ सुदर्शना । तथा नन्दोत्तरा नन्दा, सुनन्दा नन्दिवर्धना ॥७२२ ॥
282828282828282828282828282
नन्दीश्वरः।
॥११३ ॥