________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ ११२ ॥
FREREREREREREDERERERERERERE
ततः परं योजनानां पञ्चशत्यवगाहिनः । तावदायाम - विष्कम्भा, अन्तरद्वीपका इमे ॥ ६९२ ॥ तत्राऽऽदर्शमुखो मेषमुखो हयमुखस्तथा । गजमुखश्च चत्वार, ऐशान्यादिषु पूर्ववत् ॥ ६९३ ॥ ततः षड्योजनशतावगाहा - ऽऽयाम - विस्तृता: । अश्वमुखो हस्तिमुखः, सिंह- व्याघ्रमुखावपि ॥ ६९४ ॥ योजनानां सप्तशतावगाहा ऽऽयाम - विस्तृताः । अश्व-सिंह- हस्तिकर्णाः कर्णप्रावरणः क्रमात् ॥ ६९५ ॥ ततोऽष्टयोजनशतीं, लवणोदेऽवगाहिनः । तावदायामसहितास्तावद्विष्कम्भशालिनः ॥ ६९६ ॥ द्वीपा उल्कामुख विद्युज्जह्वो मेषमुखोऽपि च । विद्युद्दन्तश्च चत्वार, ऐशान्यादिविदिक्क्रमात् ॥ ६९७ ॥ योजनानां नवशत, ततोऽपि लवणोदधेः । अवगाह्य स्थितास्तावद्विष्कम्भा ऽऽयामशालिनः ॥ ६९८ ॥ नाम्ना गूढदन्तो घनदन्तकः श्रेष्ठदन्तकः । शुद्धदन्तश्च चत्वारोऽन्तरद्वीपा विदिक्क्रमात् ॥ ६९९ ॥ अष्टाविंशतिरेवं च, शिखरिण्यपि पर्वते । एकत्र मेलिताः सर्वे, षट्पञ्चाशद् भवन्ति ते ॥ ७०० ॥ मानुषोत्तरपरतः, पुष्करार्धं द्वितीयकम् । पुष्करस्य परिक्षेपी, द्विर्गुणः पुष्करोदकः ॥ ७०१ ॥ ततोऽपि वारुणिवरौ, नाम्ना द्वीप-पयोनिधी । ततः परं क्षीरवरौ, नामतो द्वीप सागरौ । ७०२ ॥ ततो घृतवरौ द्वीपा - बुधी इक्षुवरो ततः । ततो नन्दीश्वरो नाम्नाऽष्टमो द्वीपो घुसन्निभः ॥ ७०३ ॥ एतद्वलयविष्कम्भे, लक्षाशीतिश्चतुर्युता । योजनानां त्रिषष्टिश्च, कोट्यः कोटिशतं तथा ॥ ७०४ ॥ असौ विविधविन्यासोद्यानवान् देवभोगभूः । जिनेन्द्रपूजासंसक्तसुरसम्पातसुन्दरः ॥ ७०५ ॥ अस्य मध्यप्रदेशे तु क्रमात् पूर्वादिदिक्षु च । अञ्जनवर्णाश्चत्वारस्तिष्ठन्त्यञ्जनपर्वताः ॥ ७०६ ॥ १ पुष्करार्धाद् द्विगुणः । २ स्वर्गसदृशः ।
GAGAGAGAGREREREREREREREREREI
द्वितीयं पर्व तृतीय: सर्गः
अजित
सगर
चरितम् ।
नन्दीश्वरः ।
॥ ११२ ॥