________________
त्रिषष्टिशलाका
पुरुषचरिते
द्वितीयं पर्व तृतीयः सर्ग: अजितसगरचरितम्।
॥१०९॥
1282828282828282828282828282
मेरोर्योजनषट्शत्या, हीनविष्कम्भकाः क्षितौ । तेषां च प्रथमं काण्डं, महामेरोरनूनकम् ॥६४८॥ द्वितीयं सप्तभिर्म्युनं, योजनानां सहस्रकैः । तृतीयमष्टभिर्मेरुवद् भद्रशाल-नन्दने ॥६४९ ॥ सहार्धपञ्चपञ्चाशसहस्रयोजनोपरि । पञ्चयोजनशत्या च, पृथु सौमनसं वनम् ॥ ६५० ॥ अष्टाविंशतिसहस्या, योजनानामथोपरि । षडूनयोजनपञ्चशतविस्तारि पाण्डकम् ॥ ६५१ ॥ उपरिष्टादधस्ताच्च, विष्कम्भोऽथाऽवगाहनम् । महामेरुगिरेस्तुल्यं, तत्तुल्या चूलिकाऽपि च ॥६५२॥ तदेवं मानुषं क्षेत्रं, द्वीपावर्धतृतीयको । द्वावब्धी पञ्चत्रिंशच्च, वर्षाः पञ्च च मेरवः ॥६५३ ॥ त्रिंशद् वर्षधरा देवकुरवः पञ्च पञ्च च । उत्तराः कुरवः षष्ट्युत्तरं च विजयाः शतम् ॥६५४ ॥ ततः परं पर्वतोऽस्ति, नामतो मानुषोत्तरः । मर्त्यलोकपरिक्षेपी, पुरप्राकारवर्तुलः ॥६५५ ॥ निविष्टः पुष्करस्याऽर्धे सौवर्णः सैकविंशतिम् । योजनानां सप्तदशशती यावत् समुच्छ्रितः ॥६५६ ॥ चतुःशती योजनानां, त्रिंशां क्रोशं च भूमिगः । योजनानां सहस्रं द्वाविंशं विस्तीर्णवानधः ॥६५७॥ योजनानां सप्तशती, त्रयोविंशां च मध्यतः । उपरिष्टाच्चतुर्विशां, योजनानां चतुःशतीम् ॥ ६५८ ॥ नोत्पद्यन्ते न म्रियन्ते, मास्तत्परतः क्वचित् । न म्रियन्ते चारणाद्या, अपि तत्परतो गताः ॥६५९ ॥ मानुषोत्तरनामा च, तेनाऽयं परतोऽस्य च । बादराग्नि-मेघ-विद्युन्नदी-कालादयो न हि ॥६६०॥ पञ्चविंशति वर्षेषु, चैष्वर्वाग् मानुषोत्तरात् । मनुष्याः सान्तरद्वीपेषूत्पद्यन्ते ही जन्मतः ॥६६१॥ संहार-विद्य-द्धियोगान्मेर्वादिशिखरेषु च । द्वीपेष्वर्धतृतीयेषु, समुद्रद्वितये च ते ॥६६२ ॥
समानम्।
1282828282828282828282828282
मानुषोत्तरः।
॥१०९ ॥