________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व तृतीयः सर्गः अजितसगरचरितम् ।
॥११०॥
82828282828282828282828288
ते च भारतका जम्बूद्वीप्या लावणका अपि । इत्येवमादयः क्षेत्र-द्वीपा-ऽम्भोधिविभागतः ॥६६३॥ द्विधाऽऽर्य-म्लेच्छभेदात् ते, तत्राऽऽाः षड्विधा इह। क्षेत्र-जाति-कुल-कर्म-शिल्प-भाषाविभेदतः ॥६६४॥ क्षेत्रार्याः पञ्चदशसु, जायन्ते कर्मभूमिषु । तत्रेह भारते सार्धपञ्चविंशतिदेशजाः ॥ ६६५ ॥ ते चाऽऽर्यदेशा नगरैरुपलक्ष्या इमे यथा । राजगृहेण मगधा, अङ्गदेशस्तु चम्पया ॥६६६ ॥ वडाः पुनस्ताम्रलिप्त्या, वाराणस्या च काशयः । काञ्चनपुर्या कलिङ्गाः, साकेतेन च कोसलाः ॥६६७ ॥ कुरवो गजपुरेण, शौर्येण च कुशार्तकाः । काम्पील्येन च पञ्चाला, अहिच्छत्रेण जाङ्गलाः ॥६६८ ॥ विदेहास्तु मिथिलया, द्वारवत्या सुराष्ट्रकाः । वत्साश्च कौशाम्बीपुर्या, मलया भद्रिलेन तु ॥६६९ ॥ नान्दीपुरेण सन्दर्भा, वरुणाः पुनरच्छया । वैराटेन पुनर्मत्स्याः , शुक्तिमत्या च चेदयः ॥६७० ॥ दशार्णा मृत्तिकावत्या, वीतभयेन सिन्धवः । सौवीरास्तु मथुरया, सूरसेनास्तु पापया ॥६७१॥ भङ्या मासपुरीवर्ताः, श्रावस्त्या च कुणालकाः । कोटीवर्षेण लाटाश्च, श्वेतव्या केतकार्धकम् ॥६७२॥ आर्यदेशा अमी एभिनगरैरुपलक्षिताः । तीर्थकृच्चक्रभृत्कृष्ण-बलानां जन्म येषु हि ॥६७३ ॥ इक्ष्वाकवो ज्ञात-हरि-विदेहाः कुरवोऽपि च । उग्रा भोजा राजन्याश्च, जात्यार्या एवमादयः ॥६७४ ॥ कुलार्यास्तु कुलकराश्चक्रिणो विष्णवो बलाः । तृतीयात् पञ्चमात् सप्तमाद् वा ये शुद्धवंशजाः ॥६७५ ॥ यजनैर्याजनैः शास्त्राध्ययना-ऽध्यापनैरपि । प्रयोगैर्वार्त्तया वृत्तिमन्तः कार्यकाः स्मृताः ॥६७६ ॥ शिल्पार्याः स्वल्पसावद्यवृत्तयस्तन्तुवायकाः । तुन्नवायाः कुलालाश्च, नापिता देवलादयः ॥६७७ ॥
१ देवाजीवाः।
82828282828282828282828282
आर्यानार्यदेशा मनुष्याश्च।
॥११०॥