________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व तृतीयः सर्गः अजितसगरचरितम् ।
॥१०८ ॥
8282828282828282828282828282
एकविंशसप्तदशशतयोजनिकोच्छ्याः । ते द्वाविंशयोजनानां, सहस्रं विस्तृतास्त्वधः ॥६३३ ॥ उपरिष्टाच्चतुर्विंशां, योजनानां चतुःशतीम् । तेषामुपरि सर्वेषां, प्रासादाः सन्ति शोभनाः ॥ ६३४ ॥ कर्कोटकः कार्दमकः, कैलाशश्चाऽरुणप्रभः । सर्वरत्नमयाश्चाणुवेलाधारीन्द्रपर्वताः ॥६३५॥ कर्कोटको विद्युज्जिह्वः, कैलाशोऽथाऽरुणप्रभः । वसन्ति देवतास्तेषु, सर्वदैव यथाक्रमम् ॥६३६ ॥ सहस्रेषु द्वादशसु, योजनानां विदिक्षु च । प्राच्यामिन्दुद्वीपौ तावद्विस्तारा-ऽऽयामशोभितौ ॥६३७ ॥ विद्येते सवितृद्वीपावपरेण च तावति । तथाऽस्ति गौतमद्वीपस्तावति सुस्थिताश्रयः ॥६३८ ॥ अन्तर्बाह्यलावणकचन्द्रा-ऽर्काणां तथाऽऽश्रयाः । प्रासादास्तेषु लवणरसस्तु लवणोदधिः ॥ ६३९ ॥ लवणोदपरिक्षेपी, ततो द्विगुणविस्तृतिः । धातकीखण्ड इत्यस्ति, नाम्ना द्वीपो द्वितीयकः ॥६४०॥ जम्बद्वीपे च ये मेरु-वर्ष-वर्षधराद्रयः । धातक्यां द्विगुणास्ते तु, ख्यातास्तैरेव नामभिः ॥६४१॥ इष्वाकारपर्वताभ्यां, दीर्घाभ्यामुदग्याम्ययोः । विभक्ता जम्बूद्वीपस्थसङ्ख्याः पूर्वापरार्धयोः ॥ ६४२ ॥ चक्राराभा निषधोच्चाः, कालोद-लवणस्पृशः । वर्षधराः सेष्वाकारा, वर्षास्त्वरान्तरस्थिताः ॥६४३ ॥ धातकीखण्डद्वीपस्य, परिक्षेपी पयोनिधिः । कालोदाख्यो योजनानामष्टौ लक्षाणि विस्तृतः ॥६४४ ॥ धातक्यां सेष्वाकाराणां, मेर्वादीनामभाषि यः । सङ्ख्याविषयनियमः, पुष्कराः स एव हि ॥६४५ ॥ धातकीखण्डक्षेत्रादिविभागाद् द्विगुणः पुनः । क्षेत्रादिकविभागोऽत्र, पुष्करार्धे प्रकीर्तितः ॥६४६ ॥ चत्वारो मेरवः क्षुद्रा, धातकी-पुष्करार्धयोः । योजनानां पञ्चदशसहस्रया मेरुतोऽणवः ॥६४७॥
१ सुस्थिताभिधानस्य देवस्याश्रयः । २ लघवः ।
8282828282828282828282828284
घातकीखण्डः।
॥ १०८॥