________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व तृतीयः
सर्गः
॥१०७॥
अजितसगरचरितम्।
28282828282828282828282888
पञ्चनवतियोजनसही च क्रमात् क्रमात् । उभयतोऽप्युच्छ्रयेण, वर्धमानजलस्तथा ॥६२०॥ मध्ये च योजनदशसहस्रीप्रमविस्तृतौ । योजनानां सहस्राणि, षोडशोच्छ्यवच्छिखः ॥ ६२१॥ कालद्वये तदुपरि, गव्यूतद्वितयावधि । हास-वृद्धिधरो नाम्ना, लवणोदः पयोनिधिः ॥६२२॥
॥चतुर्भिः कलापकम् ॥ पूर्वादिदिक्षु तत्रान्तः, प्रमाणे लक्षयोजनाः । वडवामुख-केयूप-यूपकेश्वरसंज्ञका ॥६२३॥ सहस्रयोजनीमानवज्रनिर्मितकुड्यकाः । योजनानां सहस्राणि, दशाऽधोऽन्ते च विस्तृताः ॥६२४ ॥ वायुधृतत्र्यंशजला, महालिञ्जरसन्निभाः । पातालकलसाः सन्ति, चत्वारः प्राक् क्रमादमी ॥ ६२५ ॥ तेषु कालो महाकालो, वेलम्बोऽथ प्रभञ्जनः । वसन्ति क्रीडावासेषु, क्रमेणैव दिवौकसः ॥६२६ ॥ सहस्रयोजनाश्चाऽन्ये, दशयोजनकुड्यकाः । अधस्ताच्च वदने च, शतयोजनसम्मिताः ॥ ६२७ ॥ वायूरिक्षप्तमध्यमिश्रापाः शतान्यष्टसप्ततिः । चतुरशीतिश्च क्षुद्रपातालकलसा इह ॥ ६२८ ॥ द्विचत्वारिंशत्सहस्रसङ्ख्या नागकुमारकाः । अन्तर्वेलाधारिणोऽस्मिन्नायुक्ता इव सर्वदा ॥६२९ ॥ बाह्यवेलाधारिणां तु, सहस्राणि द्विसप्ततिः । तथा षष्टिः सहस्राणि, शिखावेलाप्रधारिणाम् ॥६३०॥ गोस्तूप उदकाभासः, शङ्खोऽप्युदकसीमकः । हैमा-ऽङ्क-रौप्य-स्फाटिका, वेलाधारीन्द्रपर्वताः ॥६३१॥ गोस्तूप-शिवक-शङ्ख-मनोहृदसुराश्रयाः । द्विचत्वारिंशत्सहस्रयोजन्यां दिग्भवाश्च ते ॥ ६३२ ॥
१ उपरि । २ तृतीयभागो वायुपूरितो भागद्वये च जलमस्तीति तात्पर्यम् । ३ अलिञ्जरो मृद्भाण्डविशेषः । ४ उपरि । ५ प्रमाणाः । ६ वायुनोत्क्षिप्ता मध्ये मिश्रा आपो येषां ते। ७ समुद्रे। ८ नियुक्ता इव ।
28282828282828282828282828
लवणाब्धिः पातालकलशा वेलन्धरदेवाश्च।
॥१०७॥