________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व तृतीयः सर्गः अजितसगरचरितम्।
॥१०६ ॥
82828282828282828282828282
मध्ये च भरतस्याऽपागुत्तरार्धविभागकृत् । वैताढ्याद्रिः प्रागपरपयोधी यावदायतः ॥६०५ । षड् योजनानि सक्रोशान्युफैं मग्नः स विस्तृतः । पञ्चाशतं योजनानि, तदर्थं पुनरुच्छ्रितः ॥६०६ ॥ भूमितो दशयोजन्यां, दक्षिणोत्तरपार्श्वयोः । तत्र विद्याधरश्रेण्यौ, दशयोजनविस्तृते ॥६०७॥ तत्राऽपाच्यां सराष्ट्राणि, पञ्चाशन्नगराणि तु । उत्तरस्यां पुनः षष्टिविद्याधरमहीभुजाम् ॥६०८ ॥ ऊर्वं विद्याभृच्छ्रेणिभ्यां, दशयोजन्यनन्तरम् । उभे च व्यन्तर श्रेण्यौ, व्यन्तरावासशोभिते ॥६०९ ॥ उपरि व्यन्तरश्रेण्योर्योजनेषु तु पञ्चसु । कूटानि नव वैताढ्य, ईगैरवतेऽपि हि ॥६१०॥ प्राकारभूता द्वीपस्य, जम्बूद्वीपस्य तिष्ठति । जगती वज्रमय्यष्टौ, योजनानि समुच्छ्रिता ॥६११ ॥ तस्याश्च मूले विष्कम्भमाने द्वादशयोजनी । मध्यभागे योजनानि, चाऽष्टौ चत्वारी मूर्धनि ॥६१२ ॥ तदूद्धर्वं जालकटको, गव्यूतद्वितयोच्छ्रयः । विद्याधराणामाक्रीडस्थानमेकं मनोहरम् ॥६१३ ॥ ततोऽपि जालकटकाद्धर्वं पद्मवराभिधा । विद्यते वेदिका रम्या, भोगभूमिर्दिवौकसाम् ॥६१४ ॥ तस्या जगत्याः पूर्वादिदिक्षु द्वाराणि च क्रमात् । विजयं वैजयन्तं च, जयन्तमपराजितम् ॥ ६१५ ॥ अस्ति च क्षुद्रहिमवन्महाहिमवदन्तरे । शब्दापातीनामधेयाद्, वृत्तवैताढ्यपर्वतः ॥६१६ ॥ शैलस्तु विकटापाती, मध्ये शिखरि-रुक्मिणोः । गन्धापाती पुनर्महाहिमवन्निषधान्तरे ॥६१७ ॥ माल्यवानन्तराले च, शैलयोर्नील-रुक्मिणोः । सर्वेऽपि पल्याकृतयः, सहस्रयोजनोच्छ्रयाः ॥६१८ ॥ जम्बुद्वीपपरिक्षेपी, विस्तारे द्विगुणस्ततः । अवगाढो योजनानां, सहस्रमवनीतले ॥६१९ ॥
82828282828282828282828282
जम्बूद्वीपस्य जगती वैताढयगिरयश्च।
॥१०६॥