________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व तृतीयः सर्गः अजितसगरचरितम् ।
॥१०५ ॥
282828282828282828282828288
गजदन्ताकृती मूर्जा, स्तोकादस्पृष्टमेरुको । अनयोरन्तरे देवकुरवो भोगभूमयः ॥५९० ॥ तद्विष्कम्भो योजनानामेकादश सहस्रकाः। द्विचत्वारिंशदधिका, योजनाष्टशती तथा ॥५९१॥ तत्र च शीतोदाभिन्नह्रदपञ्चकपार्श्वतः । स्वर्णशैला दश दश, ते मिथो मीलनाच्छतम् ॥५९२ ॥ तत्र नद्यः शीतोदायाः, पूर्वापरतटस्थितौ । शैलो विचित्रकूटश्च, चित्रकूटश्च नामतः ॥५९३ ॥ तयोः सहस्रमुत्सेधे, योजनानामधोऽपि च । तावानेव हि विस्तारस्तदर्धं चोर्द्धविस्तृतौ ॥५९४ ॥ मेरोरुत्तरतो नीलगिरेर्दक्षिणतो गिरी।गजदन्ताकृती गन्धमादनो माल्यवानपि ॥५९५ ॥ तयोरन्तः शीताभिन्नह्रदपञ्चकपार्श्वगैः । स्वर्णशैलैः शतेनाऽतिरम्याः कुरव उत्तराः ॥॥५९६ ॥ तेषु नद्याश्च शीतायास्तटयोर्यमकाभिधौ । सौवर्णी विचित्रकूट-चित्रकूटसमौ गिरी ॥५९७॥ देवोत्तरकुरुभ्यः प्राक्, प्राग्विदेहाः स्मृताश्च ते । पश्चिमेऽपरविदेहा, मिथः क्षेत्रान्तरोपमाः ॥५९८ ॥ परस्परमसञ्चारा, विभक्ताः सरिदद्रिभिः । चक्रिविजेया विजयास्तेषु षोडश षोडश ॥५९९ ॥ तत्र कच्छो महाकच्छः, सुकच्छः कच्छवानपि । आवर्तो मङ्गलावर्तः, पुष्कलः पुष्कलावती ॥६००॥ प्राग्विदेहोत्तरा ह्येते, दक्षिणास्त्वथ वत्सकः । सुवत्सोऽथ महावत्सो, रम्यवान् रम्य-रम्यकौ ॥६०१॥ रमणीयो मङ्गलवानथाऽपरविदेहगाः । पद्मः सुपद्मोऽथ महापद्मः पद्मावती तथा ॥६०२ ॥ शङ्खः कुमुद-नलिने, नलिनवांश्च दक्षिणाः । वप्रः सुवप्रोऽथ महावप्रो वप्रावती तथा ॥६०३ ॥ अथ वल्गुः सुवल्गुश्च, गन्धिला गन्धिलावती । अपरेषु विदेहेषुत्तरस्था विजया अमी॥६०४॥ १ उच्चत्वे। २ पूर्वस्यां दिशि। ३ पूर्वविदेहाः । ४ चक्रिणा विजेतुं योग्याः ।
28282828282828282828282828
विदेहक्षेत्रम् विजयाः
॥१०५ ॥