________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ १०४ ॥
CREDERERERERERERERERERERERI
महापद्मात् तु द्विगुणस्तिङ्गिच्छिर्निषधे हृदः । तिङ्गिच्छितुल्यो नीलाद्रौ, हृदः केसरिसंज्ञकः ॥ ५७५ ॥ महापुण्डरीको महापद्मतुल्यस्तु रुक्मिणि । पद्मतुल्यः पुण्डरीकहृदः शिखरिपर्वते ॥ ५७६ ॥ विकस्वराणि तिष्ठन्ति, पद्मादिषु ह्रदेषु तु । कमलान्यवगाढानि, जलान्तर्दशयोजनीम् ॥ ५७७ ॥ श्रीह्रीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्यायुषोऽत्र तु । सामानिकपार्षद्याऽऽत्मरक्षानीकयुताः क्रमात् ॥ ५७८ ॥ तत्र च भरतक्षेत्रे, गङ्गा-सिन्धु मेहापगे । रोहिता-रोहितांशे तु, क्षेत्रे हैमवताभिधे ॥ ५७९ ॥ हरिद्धरिकान्ता नद्यौ वर्षे तु हरिवर्षके । महाविदेहेषु शीता-शीतोदे सरिदुत्तमे ॥ ५८० ॥ नरकान्ता - नारीकान्ते, क्षेत्रे रम्यकनामनि । स्वर्णकूला- रूप्यकूले, हैरण्यवतवर्षके ॥ ५८१ ॥
नद्यौ तु रक्ता-रक्तोदे, क्षेत्र ऐरवताभिधे । आद्या: पूर्वाब्धिगामिन्यो, द्वितीयाः पश्चिमाब्धिगाः ॥ ५८२ ॥ आपगानां सहस्रैस्तु, चतुर्दशभिरुत्तमैः । गङ्गा-सिन्धू महानद्यौ, प्रत्येकं परिवारिते ॥ ५८३ ॥ द्विगुणद्विगुणनदीवृते द्वे द्वे परे अपि । यावच्च शीता-शीतोदे, उत्तरा दक्षिणोपमाः ॥ ५८४ ॥ प्रत्येकं ते पुनः शीता-शीतोदे परिवारिते । द्वात्रिंशत्सहस्राधिकैर्नदीलक्षैस्तु पञ्चभिः ॥ ५८५ ॥ भरतोरुत्वे षड्विंशा, पञ्चयोजनशत्यथ । एकोनविंशत्यंशस्य, योजनस्य षडंशकाः ॥ ५८६ ॥ ततो द्विगुणद्विगुणविष्कम्भाश्च यथोत्तरम् । विदेहान्ता वर्षधराचल-वर्षा भवन्ति तु ॥ ५८७ ॥ उत्तरे वर्षधराद्रि-वर्षास्तुल्यास्तु दक्षिणैः । वर्षधराद्रि-वर्षाणां प्रमाणमिदमेव हि ॥ ५८८ ॥ निषधाद्रेरुत्तरतो, मेरोर्दक्षिणतोऽपि च । विद्युत्प्रभ - सौमनसौ, गिरी पश्चिम-पूर्वकौ ॥ ५८९ ॥
१ जलमध्ये दशयोजनपर्यन्तमवगाह्य स्थितानि । २ महानद्यौ । ३ भरतस्य पृथुत्वे ।
SACREDEREREREREREREREDERERE
द्वितीयं पर्व तृतीयः सर्गः
अजित
सगर
चरितम् ।
जम्बूद्वीपहूदाः ।
जम्बूद्वीप
महानद्यः
विदेहक्षेत्रम् ।
॥ १०४ ॥