________________
द्वितीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
तृतीयः
सर्गः अजितसगरचरितम्।
॥१०३॥
28282828282828282828282828
चत्वारिंशद्योजनानि, पुनस्तस्याः समुच्छ्रये । मूलविष्कम्भमाने तु, तस्या द्वादशयोजनी ॥५६०॥ अष्टौ तन्मध्यविष्कम्भे, चत्वार्युपरिविस्तृतौ । मेरोर्मूले भद्रशालं, वनं वलयसन्निभम् ॥५६१ ॥ भद्रशालात् पञ्चशतयोजन्यामधिमेखलम् । नन्दनं विस्तृतं पञ्च, योजनानां शतानि तु ॥५६२ ॥ सार्धद्विषष्टिसहस्रयोजनेष्वथ तादृशम् । मेखलायां द्वितीयस्यां, तावत् सौमनसं वनम् ॥५६३ ॥ वनात् सौमनसात् षट्त्रिंशद्योजनसहस्रतः । भवेदूद्धर्वं तृतीयस्यां, मेखलाभुवि सुन्दरम् ॥५६४॥ चतुर्नवत्यग्रचतुःशतयोजनविस्तृतम् । वलयाकारमुद्यानं, मेरोः शिरसि पाण्डकम् ॥५६५ ॥ जम्बूद्वीपे त्विह द्वीपे, सप्त वर्षाणि भारतम् । हैमवतं हरिवर्षं, विदेहं रम्यकं तथा ॥५६६ ॥ हैरण्यवतैरवते, अमून्या दक्षिणोत्तरम् । विभागकारिणोऽमीषाममी वर्षधराद्रयः ॥५६७ ॥ हिमवन्महाहिमवन्निषधा नील-रुक्मिणौ । शिखरी चेति मूलोद्धर्वतुल्यविस्तारशालिनः ॥५६८ ॥ तत्राऽवगाढो मेदिन्यां, पञ्चविंशतियोजनीम् । हेममयोऽद्रिर्हिमवानुच्छ्रितः शतयोजनीम् ॥५६९॥ महाहिमवदद्रिस्तविगुणोऽर्जुननिर्मितः । ततोऽपि द्विगुणस्तापनीयो निषधपर्वतः ॥५७० ॥ नीलस्तु निषधतुल्यो, गिरिर्वैडूर्यनिर्मितः । महाहिमवता तुल्यो, रुक्मी रजतनिर्मितः ।। ५७१ ॥ तापनीयस्तु शिखरी, समो हिमवदद्रिणा, सर्वेऽपि पार्श्वभागेषु, विचित्रमणिशालिनः ॥५७२ ॥ सहस्रयोजनायामस्तदर्धेन तु विस्तृतः । अद्रौ क्षुद्रहिमवति, पद्मनामा महाहदः ॥५७३ ॥ महाहिमवदद्रौ तु, महापद्माभिधो हृदः । विद्यते पाहूदतो, द्विगुणायाम-विस्तृतिः ॥५७४ ॥
१ उच्चत्वे। २ मेखलायाम्। ३ श्वेतसुवर्णनिर्मितः। ४ सुवर्णमयः ।
28282828282828282828282828
जम्बूद्वीपस्तद्वर्षाणि वर्षधराश्च।
॥१०३॥