________________
द्वितीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
तृतीयः सर्गः
॥१०२॥
अजितसगरचरितम्।
28282828282828282828282828
पुरः सिंहा दक्षिणतो, गजा अपरतो वृषाः । उत्तरतोऽश्वाश्चन्द्रादिविमानवाहनान्यमी ॥५४५॥ ते चाऽऽभियोगिकाश्चन्द्रांश्वोः सहस्राणि षोडश । ग्रह-नक्षत्र-ताराणामष्टौ चत्वार्युभे क्रमात् ॥५४६॥ चन्द्रादीनां गतिजुषां, स्वरसेनैव सन्ततम् । वाहनत्वेनाऽवतिष्ठन्त्याभियोग्येन कर्मणा ॥५४७ ॥ मानुषोत्तरपरतो, योजनानां सहस्रकैः । पञ्चाशतेन्दवोऽर्काश्च, तिष्ठन्त्यन्तरिता मिथः ॥५४८॥ मनुष्यक्षेत्रचन्द्रा-ऽर्कमानादर्धप्रमाणकाः । क्रमशः क्षेत्रपरिधिवृद्ध्या वर्धिष्णुसङ्ख्यकाः ॥५४९ ॥ सुलेश्या ग्रह-नक्षत्र-तारकापरिवारिताः । सङ्ख्याविवर्जिता एवं, घण्टाकारमनोहराः ॥५५०॥ स्वयम्भूरमणाम्भोधिमवधीकृत्य ते सदा । तिष्ठन्ति योजनलक्षान्तरिताभिश्च पतिभिः ॥५५१ ॥ मध्यलोके जम्बूद्वीप-लवणाद्याः शुभाभिधाः । द्विगुणद्विगुणाभोगा, असङ्ख्य द्वीप-सागराः ॥५५२ ॥ पूर्वपूर्वपरिक्षेपकृतो वलयसन्निभाः । अन्त्यः स्वयम्भूरमणो, नाम तेषां महोदधिः ॥५५३ ॥ जम्बूद्वीपान्तरे मेरुः, काञ्चनस्थालवर्तुलः । अधो योजनसहस्रमवगाढो महीतले ॥५५४ ॥ नवनवति योजनसहस्राणि समुच्छ्रितः । योजनानां सहस्राणि, भूतले दश विस्तृतः ॥५५५ ॥ एकं योजनसहस्रमुपरिष्टाच्च विस्तृतः । त्रिकाण्डश्च त्रिभिर्लोकः, प्रविभक्तवपुश्च सः ॥५५६ ॥ शुद्धपृथ्वी-ग्राव-वज्र-शर्कराबहुलं खलु । एकं योजनसहस्रं, सुमेरोः काण्डमादिमम् ॥५५७ ॥ जातरूप-स्फटिका-ऽकरजतैर्बहुलावनि । योजनानां सहस्राणि, त्रिषष्टिस्तु द्वितीयकम् ॥५५८ ॥ षट्त्रिंशच्च तृतीयं तु, जाम्बूनदशिलामयम् । वैडूर्यरत्नबहुला, चूलिका तस्य शोभना ॥५५९ ॥
१ चन्द्र-सूर्ययोः। २ पूर्वपूर्वद्वीप-समुद्रपरिवृता: एकान्तरिता द्वीप-समुद्राः ।
282828282828282828282828286
तिर्यग्लोकः ।
॥१०२॥